________________
अज्विधिः स इति षस्य सः। सुभिस्सुप्सु दीर्घ इति इकारस्य दीर्घत्वम्। ततः अन्त्यस्य हल इति सुलोपः। व्यवस्थितविकल्पोऽयम्, तेन इत्त्वाभावपक्षेऽपि ऋषिशब्दे इत्त्वमेव, अन्यत्र सर्वत्र अत्त्वम्। मसिणं, मसणम्। पक्षे मसणं। ऋतोऽदिति अत्त्वम्। एवं धिट्ठो, धट्ठो, धृष्टः। ष्टस्य ठः इति ठः, तस्य द्वित्वे वर्गे युजः, पूर्व इति टः। विसहो, वसहो; पिहुलं, पहुलं। वृषभपृथुलयोः। खघथादिना थभयोर्हत्वम्। दिढो, दृढो, दृढः। मिओ, मओ, मृगः। गिट्ठी, गट्ठी, गृष्टिः। पूर्ववत् षत्वं द्वित्वं च, कि, कअं, कृतम्। कगचादिना तलोपः। गिद्धो, गद्धो गृधः। सर्वत्र लवरामिति रेफलोपः। शेषस्य धस्य द्वित्वे वर्गे युजः पूर्व इति दः।
ऋषिर्मसृणधृष्टौ च वृषभः पृथुलो दृढः। मृगो गृष्टिः कृतं गृध्र ऋष्याद्या एवमादयः।। भृङ्गभृङ्गारशृङ्गाराः कृपाणः कृपणः कृपा।
शृगालहृदये वृष्टिदृष्टी इत्येषु नित्यमित्॥ भिंगो, भृङ्गः। नङोहलीति ङस्य बिन्दुः। तस्य कपि तद्वर्यान्त इति वा ङत्वम्। भिङ्गारो, भृङ्गारः। सिङ्गारो शृङ्गारः। किवाणो, किवणो, कृपाणकृपणयोः। किवा कृपा। पो व इति वः। सिआलो, शृगालः। हिअअं, हृदयम्। कगचादिना दयोर्लोपः। विट्ठी, दिट्ठी वृष्टिदृष्टयोः। ष्टस्य ठः, तस्य द्वित्वे वर्गे युजः पूर्व इति ठः॥ प्राकृतमञ्जरी
ऋष्वादिषु पदेष्वित्त्वमृकारस्य विधीयते। तस्मादृषिरिसी वाच्यो दृष्टिर्दिट्ठी कृशः किसो।। ऋषिर्दृष्टिः क्वशो घृष्टिः क्वपा शृङ्गार वृश्चिकाः। मृदङ्गो हृदयं भृङ्गः शृगालक्वति सृष्टयः॥ विसृष्टश्व मृगस्तद्वद् भृत्यश्च कसरस्तथा।
आकृतिः प्रकृतिश्चैव स्यादृष्यादिरयं गणः।। मनोरमा
ऋष्यादिषु शब्देषु आदेः - "ऋ' कारस्य इकारो भवति। इसी,