________________
112
प्राकृत व्याकरणम् विसी, गिट्ठी, दिट्ठी, सिट्ठी, सिङ्गारो, मिअंको, भिङ्गो, भिङ्गारो, विइण्हो, विहिअं, किसरो, किच्चा, विच्छुओ, सिआलो, किई, किवा।। ऋषि-वृषिगृष्टि-दृष्टि-सृष्टि-शृङ्गार-मृगाङ्क-भृङ्ग-भृङ्गार-हृदय-वितृष्णा-वृंहितकृशर-कृत्या-वृश्चिक-शृगाल-कृति-कृषि-कृपाः॥ अम्बिका ___ "आदेरतः" (प्रा. १.१) इत्यतः “आदेः" "ऋतोडत्” (प्रा. १.२७) इत्यतः "ऋतः", पदद्वयमनुवर्तते। सूत्रार्थः
ऋषि आदि (वृषि, गृष्टि, दृष्टि, सृष्टि, शृङ्गार, मृगाङ्क, भृङ्ग, भृङ्गार, हृदय, वितृष्ण, वृंहित, कृशर, कृत्या, वृष्चिक, शृगाल, कृति, कृषि, कृपा) संस्कृत शब्दानाम् आदि “ऋ" कारस्य स्थाने प्राकृते 'इ' कारः (इत्) भवति।
ऋषिः > इसी "ऋषिः” इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण आदि "ऋ" कारस्य “इ” कारे “इषि” इति स्थिते “शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'ष्' कारस्य ‘स्' कारे “इसि” इति स्थिते, "सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दीर्घ “इसी" इति रूपं सिद्धम्।
वृषिः > विसी ___“वृषिः' इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण
आदि - "ऋ' कारस्य “इ” कारे “विषि" इति स्थिते "शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण “ष्" कारस्य ‘स्' कारे “विसि” इति प्राप्ते "सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दोघे "विसी" इति रूपं सिद्धम्।
गृष्टिः > गिट्ठी "ग:'' इति स्थिते 'इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ'' कारस्य 'इ' कारे "गिष्टि' इति स्थिते “ष्टस्य ठः'' (प्रा. ३.१०) इत्यनेन सूत्रेण ‘ष्ट्' इत्यस्य ‘ट्' कारे "गिठि” इति स्थिते