________________
अज्विधिः "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण “ठ्" इत्यस्य द्वित्वे "गिठि" इति जाते “वर्गेषु युजः पूर्वः' (प्रा. ३.५१) इत्यनेन सूत्रेण "ट्" इत्यस्य “ट" कारे “गिट्ठि'' इति प्राप्ते “सुभिस्सुप्सु दीर्घः" (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दीर्घत्वे “गिट्ठी'' इति रूपं “सिद्धम्"।
दृष्टिः > दिट्ठी "दृष्टिः” इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ" कारस्य “इ” कारे “दिष्टि" इति स्थिते “ष्टस्य ठः" (प्रा. ३.१०) इत्यनेन सूत्रेण “ष्ट्" इत्यस्य “ठ्' कारे “दिठि" इति स्थिते "शेषादेशयोर्द्वित्वमनादौ" (प्रा. ३.५०) इत्यनेन सूत्रेण “ठ्" इत्यस्य द्वित्वे "दिठ्ठि" इति स्थिते “वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इत्यनेन
सूत्रेण "" इत्यस्थ "ट्'' कारे, दिट्ठि इति प्राप्ते “सुभिस्सुप्सु दीर्घः" (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दीर्घत्वे “दिट्ठी” इति रूपं सिद्धम्।
___ सृष्टिः > सिट्ठी ___ “सृष्टिः" इति स्थिते “इदुष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण आदि "ऋ" कारस्य “इ” कारे “सिष्टि'' इति स्थिते, “पृस्य ठः" (प्रा. ३.१०) इत्यनेन सूत्रेण ‘ष्ट्' इत्यस्य 'ठ' कारे “सिठि'' इति स्थिते, “शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण 'ठ्' कारस्य द्वित्वे, “सिठ्ठि" इति जाते, “वर्गेषु युजः पूर्वः” (प्रा. १.२८) इत्यनेन सूत्रेण “ठ्" इत्यस्य "ट्'' कारे “सिट्ठि” इति प्राप्ते, “सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दीर्घत्वे “सिट्ठी” इति रूपं सिद्धम्।
__ शृङ्गारः > सिंगारो "शृङ्गारः" इति स्थिते 'इदृष्यादिषु' (प्रा. १.२८) इत्यनेन सूत्रेण 'आदि-ऋ" कारस्य 'इ' कारे “शिङ्गार'' इति स्थिते ‘‘शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य ‘स्' कारे “सिङ्गार'' इति स्थिते “ययि तद्वर्गान्तः” (प्रा. ४.१७) इत्यनेन सूत्रेण विकल्पेन ययि परे वर्गस्य पञ्चमवर्णस्य अनुस्वारे “सिंगार" इति स्थिते “अत ओत् सोः'' (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य “ओत्वे'' “सिंगारो इति रूपं. सिद्धम्।