________________
__प्राकृत व्याकरणम् ___ मृगाङ्कः > मिअंको मिअङ्को "मृगाङ्कः” इति स्थिते “इदृष्यादिषु" (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ" कारस्य “इ” कारे "मिगाङ्क" इति स्थिते "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'ग' कारस्य लोपे “मिआङ्क" इति स्थिते, “सन्धाववचामज्लोपविशेषा वहुलम्" (प्रा. ४.१) इत्यनेन सूत्रेण सन्ध्यस्थ “आ” कारस्य 'अ' कारे (अच् विशेषे) "मिअङ्कः" इति जाते, “ययि तद्वर्गान्तः” (प्रा. ४.१७) इत्यनेन सूत्रेण वर्गस्य पञ्चमवर्णस्य अमावपक्षे, बिन्दुत्वे (अनुस्वारे), "मिअंक" इति जाते, अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे", मिअंको" इति रूपं सिद्धम्। .
... भृङ्गः > भिङ्गो भृङ्गः" इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ" कारस्य "इ" कारे "भिङ्ग" इति स्थिते, “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने "सु" इत्यस्य “ओत्वे", भिङ्गो" इति रूपं सिद्धम्।
भृङ्गारः > भिङ्गारो भृङ्गारः” इति स्थिते “इदृष्यादिषु" (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ" कारश्स्य “इ” कारे “भिङ्गार" इति स्थिते, “अत ओत् सोः' (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे", "भिङ्गारो” इति रूपं सिद्धम्।
हृदयम् > हिअअं "हृदयम्” इति स्थिते "इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ कारस्य" “इ” कारे हिदय” इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण य् कारयोः लोपे “हिअअ" इति प्राप्ते “सोविन्दुनपुंसके" इत्यनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) हिअअं" रूपं सिद्धम्।
वितृष्णः > विइण्हो “वितृष्णः" इति स्थिते, “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण