________________
अविधिः
115 'ऋ' कारस्य 'इ' कारे वितिष्ण" इति स्थिते “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'त्' कारस्य लोपे "विइष्ण" इति जाते 'ह्नस्नष्णाक्षणश्नां ण्हः” (प्रा. ३.३३) इत्यनेन सूत्रेण "ष्ण" इत्यस्य "ण्ह” कारे “विइण्ह" इति ‘प्राप्ते, “अत ओत्' सोः” (प्रा. ५.१) सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओत्वे", विइण्हो" इति रूपं सिद्धम्।
बृंहितम् > विहिअं "बृंहितम्” इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण आदि-ऋ" कारस्य “इ” कारे “विहितम्" इति जाते कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण “त्" कारस्य लोपे विहिअ" इति प्राप्ते. “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इयनेन सूत्रेण नपुंसके "सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “विहिअं” इति रूपं सिद्धम्।
कृशरः > किसरी “कृशरः" इति स्थिते “इदृष्यादिषु'' (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ कारस्य” “इ” कारे “किशर” इति स्थिते “शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य 'स्' कारे “किसर” इति प्राप्ते “अत ओत् सोः" (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु" इत्यस्य ओत्वे “किसरो” इति रूपं सिद्धम्।
वृश्चिकः > विच्छुओ अस्य प्रक्रियां "उदिक्षुवृश्चिकयोः” (प्रा. १.१५) इति सूत्रं प्रसङ्गे दष्टव्यम्।
कृत्या > किच्चा "कृत्या' इति स्थिते "इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ" कारस्य “इ” कारे "कित्या" इति स्थिते, “त्यथ्यद्यां चछजाः' (प्रा. ३.२७) इत्यनेन सूत्रेण "त्य्" इत्यस्य 'च' कारे, “किचा" इति स्थिते "शेषादेशयोर्तुित्वमनादौ” (प्रा. ३.५०) इत्यने सूत्रेण 'च' इत्यस्य दिवत्वे "किच्चा" इति रूपं सिद्धम्।