________________
116
प्राकृत व्याकरणम् शृगालः > सिआलो 'शृगालः" इति स्थिते “इदृष्यादिषु" (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ" कारस्य “इ” कारे “शिगाल'' इति जाते “शषोः सः" (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' कारस्य ‘स्' कारे “सिगाल" इति जाते “कगचजतदपयवां प्रायो लोपः" (प्रा. २.२) इत्यनेन सूत्रेण 'ग्' कारस्य लोपे “सिआल" इति प्राप्ते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य “ओत्वे” “सिआलो" इति रूपं सिद्धम्।
कृतिः > किई “कृतिः" इति स्थिते “इदष्यादिषु" (प्रा. १.२८) इत्यनेन सूत्रेण “आदि-ऋ" कारस्य "इ" कारे “किति" इति स्थिते, "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'त्' कारस्य लोपे किइ" इति प्राप्ते, “सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य “सु" इति विभक्ति प्रत्यये दीर्घादेशे “किई" इति रूपं सिद्धम्। .
कृषिः > किसी "कषिः" इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण "आदि-ऋ" कारस्य “इ” कारे “किषि" इति स्थिते, “शषोः सः” . (प्रा. २.४३) इत्यनेन सूत्रेण 'ए' कारस्य ‘स्' कारे “किसि” इति प्राप्ते “सुभिस्सुप्सु दीर्घः' (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य 'सु' इति विभक्ति प्रत्यये दीर्घादेशे “किसी” इति रूपं सिद्धम्।
कृपा > किवा "कृपा' इति स्थिते “इदृष्यादिषु' (प्रा. १.२८) इत्यनेन सूत्रेण आदि-ऋ' काश्स्य “इ” कारे “किपा' इति स्थिते, “पोवः' (प्रा. २.१५) इत्यनेन सूत्रेण ‘प्' कारस्य ‘व्' कारे “किवा' इति रूपं सिद्धम्। समन्वयः
“वितृष्णः" शब्दे मध्यग 'ऋ' कारस्य 'इ' कारे इयं अनुमीयते यत् मध्य (अनादि) “ऋ" कारस्याऽपि 'इ' कारः भवति।