________________
64
प्राकृत व्याकरणम् ५०) इति सूत्रेण “क्” कारस्य द्वित्वे “उक्कर इति स्थिते “ए शय्यादिषु" (प्रा. १.५) इति सूत्रेण 'अ' कारस्य (मध्य-अ) स्थाने 'ए' कारे “उक्केर" इति प्राप्ते “अत ओत् सोः” (प्रा. ५.१) इन्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य "ओ" कारे “उक्केरो" इति रूपं सिद्धम्"।
त्रयोदशः > तेरहो "त्रयोदशः" इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इति सूत्रेण ‘र्' इत्यस्य लोपे “तयोदश" इति स्थिते, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'य' कारस्य लोपे “तओदश" इति स्थिते “संन्धावचामज्लोपविशेषाबहुलम्" (प्रा. ४.१) इति सूत्रेण अचां सन्धौ कर्तव्ये अचविशेषो लोप विशेषश्च बहुलं स्यात्, इति नियमेन अच् “ओ" कारस्य लोपे “तदश" 'इति स्थिते, “संख्यायाञ्च" (प्रा. २.१७) इति सूत्रेण संख्यावाचिनि शब्दे अयुक्तस्यानादौ 'द्' कारस्य रेफादेशे "तरश" इति स्थिते "दशादिषु हः” (प्रा. २.४४) इति सूत्रेण 'श्' कारस्य 'ह' कारे, “तरह" इति स्थिते “ए शय्यादिषु” (प्रा. १.५) इति सूत्रेण “आदि-अ" कारस्य 'ए' कारे, तेरह" इतिप्राप्ते “अत ओत् सोः” (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमाविमक्ति एकवचने 'सु' इत्यस्य "ओ" कारे "तेरहो" रूपं सिद्धम्'
आश्चर्यम् > अच्छेरं “आश्चर्यम्" इति स्थिते ‘सन्धावचामज्लोपविशेषावहुलम' (प्रा. ४.१) इति सूत्रेण स्वराणाम् विशेषत्वात् आ-कारस्य अ कारे “अश्चर्य" इति स्थिते "श्चत्सप्सां छः” (प्रा. ३.४०) इति सूत्रेण संयुक्त व्यञ्जन समुदाय “श्च्" इत्यस्य “छ्" कारे, “शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इति सूत्रेण आदेशस्य द्वित्वे अर्थात् 'छ्' इत्यस्य द्वित्वे “अछछर्य" इति प्राप्ते “वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इति सूत्रेण 'छ' इत्यस्य "च्” कारे “अच्छर्य' इति जाते “तूर्यधैर्य सौन्दयर्याश्चर्यपर्यन्तेषु रः" (प्रा. ३.१८) इति सूत्रेणे '' इत्यस्य 'र' कारे “अच्छर” इति स्थिते “ए शय्ययादिषु" (प्रा. १.५) इति सूत्रेण, सूत्रे 'च' कारस्य उपादान त्वात् अनादि 'अ' कारस्य 'ए' कारे “अच्छेर'' इति स्थिते