________________
63
अज्विधिः अम्बिका . “आदेरतः” इति अधिकार-सूत्रतः (प्रा. १.१) “आदेः” तथा “अतः” पदद्वयमनुवर्तते। “च" कारस्य उपादानेन आदि तथा अनादि एतयोः ग्रहणं इति तात्पर्यम्। सूत्रार्थः
शय्या आदि (सौन्दर्यम्, उत्करः त्रयोदशः, आश्चर्यम्, पर्यन्तम्, वल्ली) संस्कृत शब्देषु तथा कदाचित् अनादौ विद्यमानस्य हस्व-अ कारस्य स्थाने 'ए' कारादेशः भवति। यथा
शय्या > सेज्जा "शय्या" इति स्थिते “शषोः सः” (प्रा. २.४३) इति सूत्रेण “श” कारस्य "स" कारे, “र्यशय्याभिमन्युषु जः" (प्रा. ३.१७) इत्यनेन सूत्रेण "शय्या' शब्दस्य “य्य्' इति युक्तस्य "'" भवति। "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इति सूत्रेण “ज्" इत्यस्य द्वित्वे, “ए शय्यादिषु” इति सूत्रेण आदि "अ" कारस्य 'ए' कारे “सेज्जा" इति रूपं सिद्धम्।
सौन्दर्यम् > सुन्देरं “सौन्दर्यम्” इति स्थिते “उत्सौन्दयादिषु (प्रा. २.८८) इति सूत्रेण “सौन्दर्यम्” शब्दस्य आदि औ कारस्य स्थाने 'उ' कारे, “ययि तदवर्गान्तः" (प्रा. ४.१७) इति सूत्रेण ययि परे विकल्पेन बिन्दुः (अनुस्वारं), तदवर्गान्तत्वात् “सुन्दर्यम्” इति प्राप्ते “तूर्यधैर्यसौन्दर्याश्चर्यपर्यन्तेषु रः” (प्रा. ३.१८) इति सूत्रेण ‘र्य' इत्यस्य 'र' कारे “सुन्दरम्” इति स्थिते “ए शय्यादिषु” (प्रा. १.५) सूत्रेण 'अ' कारस्य (मध्य-अ) स्थाने 'ए' कारे “सुन्दरम्" इति जाते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके “सु" इत्यस्य बिन्दुत्वे (अनुस्वारे) “सुन्देरं इति सिद्धम्।
उत्करः > उक्केरो “उत्कर" इति स्थिते “उपरि लोप कगडतदपषसाम्” (प्रा. ३. १) इति सूत्रेण ‘त्' कारस्य लोपे, “शेषादेशयोर्द्वित्वमनादौ (प्रा. ३.