________________
प्राकृत व्याकरणम् सञ्जीवनी
शय्याशब्देन सदृशाः शय्यादयः। तेषु शय्यादिषु आदेरकारस्य एकारादेशो भवति। चकारादनादेरपि। सेजा शय्या। आदेरकारस्यैत्वम्। र्यशय्याभिमन्युः जः इति य इत्यस्य जः। शेषादेशादिना जस्य द्वित्वम्। सुंदेरं, सौन्दर्य्यम्। उत्सौन्दर्यादिषु इति औकारस्योत्त्वम्। तूर्यधैर्यादिना र्यस्य रः। बेल्ली, बल्ली। केत्तिअं, कियत्। किं परिमाणमस्य किमो यत्। किंशब्दे किमः। कः इति कः। जेत्तियं, यावत्। यच्छब्दे अन्त्यस्य हलः इति तलोपः। आदेर्यो जः इति जः। तेत्तिअं, तावत्। तच्छब्देऽपि पूर्ववत् तलोपः। 'इष्टौ किंयत्तदेतेभ्यः परिमाणे त्तिअद्दहौ इति त्रिभ्योऽपि त्तिअप्रत्ययः। त्रयोमी, त्तिआन्ताः। उक्करो, उत्करः। उपरि लोपः इत्यादिना तलोपः। शेषादिना कस्य द्वित्वम्। मध्यस्यैत्वम्। अच्छेरं, आश्चर्यम्। अदातो यथादिषु वा इत्यत्त्वम्। श्चत्सप्सां छः इति श्चस्य छः। तस्य द्वित्वे वर्गे युजः पूर्वः इति चः। तूर्यधैर्यादिनार्यस्य रः। थोअमेत्तं, स्तोकमात्रम्। स्तस्य थः। कगचादिना कलोपः। अदातो यथादिषु वा इत्यम्। वेण्टं, वृन्तम्। ऋतोऽदित्यत्त्वे कृते एत्वम्। तालवृन्ते ण्टः इत्यत्र केवलवृन्तशब्दे ण्ट इति वक्ष्यते।
शय्यासौन्दर्यपर्यन्तवल्लीत्रित्तिआन्तोत्कराः।
आश्चर्यमात्रवृन्तानि शय्यादयः स्युरीदृशाः॥५॥ प्राकृतमञ्जरी
शय्यादिषु भवेदेत्वं शय्या सेज्जा निगद्यते। आश्चर्यं विदुरच्छेरं त्रयोदश च तेरह॥ शय्या त्रयोदशाश्चर्यपर्यन्तोत्करवल्लयः।
सौन्दर्यञ्चेति शय्यादिगणः शेषस्तु पूर्ववत्॥५॥ मनोरमा
शय्या इत्येवमादिषु शब्देषु आदेरतः एकारादेशो भवति। सेज्जा सुन्देरं, उक्केरो, तेरहो, अच्छेरं, पेरन्तं, वेल्ली॥ शय्या - सौन्दर्योत्कर -- त्रयोदशाश्चर्य-पर्यन्त वल्ल्यः ॥