SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ अज्विधिः प्राकृतमञ्जरी अरण्यमिति शब्देऽस्मिन्नकारस्यादिवर्त्तिनः । अविकल्पेन लोपः स्यात्ततो 'रणं' भवेदिदम् ॥४ ॥ मनोरमा अरण्य शब्दे आदेरतो लोपो भवति, रणं । अम्बिका प्रथम सूत्रं “आदेरतः " ( प्रा. १.१) इत्यतः ‘आदेः' तथा 'अतः’ इति द्वौ शब्दौ अनुवर्तेते । सूत्रार्थ: (4 61 "अरण्यम्" इति संस्कृत शब्दस्य आदौ विद्यमानौ हस्व “अ” कारस्य प्राकृते लोपः भवति । अरण्यम् > रण्णं 'अरण्यम्” इति स्थिते "लोपेऽरण्ये” (१.४) सूत्रेण 'अ' कारस्य लोपे "रण्य” इति स्थिते " अधो मनयाम्” (प्रा. ३.२) इत्यनेन सूत्रेण 'य्' कारस्य लोपे 'रण' इति स्थिते " शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इति सूत्रेण ‘ण्’ कारस्य द्वित्वे "रण्ण” इति जाते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “रण्णं” इति रूपं सिद्धम् । ५. ए शय्यादिषु (च) सुबोधिनी आदेरत एत्वं स्यात्। शय्यासौन्दर्यपर्यन्तबल्लीतितामितो (त्रित्तिआन्तो ?) त्कराः । आश्चर्यमात्रवृन्तानि ज्ञेयः शय्यादिरीदृशः । सेजा, सुन्दरो, वेल्ली केत्तिअं, जेत्तिअं, तेत्तिअं । अमी किंयत्तच्छब्दानां परिणामाः। उक्केरं, अच्छेरं । मात्रवृन्तशब्दयोरदातो यथादिषु ऋतोऽदिति सूत्राभ्यां कृताकारयोर्ग्रहणम्। थोअमेत्तं, वेण्ठं ॥५॥
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy