________________
60
प्राकृत व्याकरणम् समन्वयः
"मनोरमा व्यख्याकारः भामहेन प्रस्तुत सूत्रे 'च' कारस्य उपादानं न कृतम्। परन्तु 'च' कारस्य उपादानं विना अनादिस्थ 'अ' कारस्य स्थाने “इ” कारादेशः असम्भवम्। अतः “चन्द्रिका” तथा दीप्ति" व्याख्याययोः 'च' कारस्य उपादामाधारीकृत्य अत्र “अम्विकायाम्" अपि 'च' उपादानेन “अनादिस्थ अ” कारस्य ग्रहणं स्पष्टम्।
कतिपयैः व्याख्याकारैः “ईषत्" शब्दस्य 'ई' कारः हस्व 'इ' कारे स्वीकृतम्। परन्तु हेमचन्द्रेण “ईसि" रूपं तु स्वीक्रियते। कालिदासोऽपि स्वकीय नाटके "ईसि" शब्दस्य प्रयोगं कृतम्।
"ईसीसि चुम्विआई भमरेहिं सुउमारकेसरसितार। ओदंसयन्ति दअमाणा पमदाओ सिरीसकुसुमाइं॥
(शकुन्तला, प्रथमअंक) प्राकृतभाषायाः “इङ्गाल" शब्दः कालान्तरे संस्कृत साहित्ये अपि उपलभ्यते। कविश्रीहर्षेण स्वरचित महाकाव्ये “अंगार" शब्दस्य स्थाने "इङ्गाल" प्रयुज्यते।
"स्फुरद्धनुनिस्वनतद्घनाशुगप्रगल्भ वृष्टि व्ययितस्य संगरे। निजस्य तेजः शिश्विनः परश्शता वितेनुरिङ्गाल मिवायशः परे॥
(नैषध चरित, प्रथमसर्ग, श्लोक - ९) ४. लोपोऽरण्ये सुबोधिनी
अरण्यशब्दे आदेरतो लोपो भवति। रण्णं। ।
स्यादिदानींपदे लोप आदेर्योगविभागतः। दाणिं॥४॥ सञ्जीवनी ____ अरण्यशब्दे अकारस्य लोपो भवति। रण्णं, अरण्यम्। अधो मनयाम् इति यलोपः शेषादेशादिना द्वित्वम्। 'स्यादिदानी पदे लोपः आदेर्योगविभागतः'। दाणि, इदानीम्। इतीतः पानीयादिषु इतीत्त्वम्। मो बिन्दुः इत्यादिना बिन्दुः। तस्य मांसादित्वाल्लोपः॥४॥