SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ 59 अज्विधिः व्यजनकम् > विअणअ __ "व्यजनकम् इति स्थिते “अधोमनयाम्' (प्रा. ३.२) इति सूत्रेण 'य' कारस्य लोपे “वजनक" इति प्राप्ते “कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इति सूत्रेण 'ज्' कारस्य लोपे “वअनक" इति स्थिते पुनः "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण "क्" इत्यस्य लोपे “वअनअ इति प्राप्ते "नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण 'न्' कारस्य ‘ण्’ कारे “वअणअ" इति प्राप्ते “इदीषत्पक्वस्वप्नवेतस व्यजनमृदङ्गाङ्गारेषु (च) (प्रा. १.३) इति सूत्रेण “आदि अ" कारस्य 'इ' कारे “विअणअ" इति रूपं सिद्धम्। मृदङ्ग > मिइङ्गो "मृदङ्गः” इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण 'ऋ' कारस्य 'इ' कारे मिदङ्ग” इति जाते “कगचजतदपयवां प्रायो लोपः (प्रा. २.२) इत्यनेन सूत्रेण 'द्' कारस्य लोपे “मिअङ्ग" इति प्राप्ते “इदीषत्पक्वस्वप्नवेतसव्यजनमृदङ्गाङ्गारेषु (च)" (प्रा. १.३) इति सूत्रेण (अनादिस्थ) अ' कारस्य 'इ' कारे “मिइङ्ग इति जाते “ययि तदवर्गान्तः" (प्रा. ४.१७) इति सूत्रेण “बिन्दुरागमस्य विकल्पपक्षे "मिइङ्ग" इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य “ओ' कारे “मिइङ्गो" इति रूपं सिद्धम्। अङ्गारः > इङ्गालो "अङ्गारः” इति स्थिते “इदीषत्पक्वस्वप्नवेतसव्यजनमृदङ्गाङ्गारेषु च” (प्रा. १.३) इत्यनेन सूत्रेण “आदि-अ'कारस्य 'इ' कारे "इङ्गार" इति स्थिते "हरिद्रादीनां रोलः'' (प्रा. २.३०) इति सूत्रेण 'र' इत्यस्य 'ल' कारे "इङ्गाल" इति स्थिते “ययि तदवर्गान्त" (प्रा. ४.१७) इति सूत्रेण ययि परे अनुस्वारस्य वर्गस्थ पञ्चम वर्णस्य विकल्प उपस्थिति त्वात् “इङ्गाल इति स्थिते “अत ओत सोः” (प्रो. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचनें “सु" इत्यस्य "ओ" त्वे "इङ्गालो" इति रूपं सिद्धम्।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy