SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ प्राकृत व्याकरणम् पक्वम् > पिक्कं “पक्वम्” इति स्थिते, “सर्वत्र लवराम्" (प्रा. ३.३) इति सूत्रेण ‘व्' इत्यस्य लोपे “पक्म इति स्थिते "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण “क्" इत्यस्य द्वित्वे “पक्कं" इति स्थिते “सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) “पक्कं” इति जाते “इदीषत्पक्वस्वप्नवेतसव्यजन मृदाङ्गाऽङ्गारेषु” (प्रा. १.३) इत्यनेन सूत्रेण “आदि-अ कारस्य 'इ' कारे "पिक्कं" इति रूपं सिद्धम्। __ स्वप्नः > सिविणो “स्वप्न" इति स्थते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण "व्' कारस्य लोपे “सप्न'' इति स्थिते “इः (त्) "श्रीहीक्रीतक्लान्तक्लेशम्लानस्वप्नस्पर्शहर्हिगर्हेषु” (प्रा. ३.६२) इत्यनेन सूत्रेण युक्तस्य विप्रकर्षः तथा पूर्वस्य 'इ' कारः, तत्स्वरता च इति नियमेन ‘प्' इत्यस्य 'इ' कारे “सपिन" इति स्थिते, “पोवः” (प्रा. २.१५) इत्यनेन सूत्रेण "प्" इत्यस्य 'व' कारे 'सविन' इति जाते "नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण "न्” कारस्य “ण” कारे "सविण" इति स्थिते, “इदीषत्पक्चस्वप्नवेतसव्यंजनमृदङ्गाऽङ्गारेषु (च)" (प्रा. १.३) इत्यनेन सूत्रेण आदि 'अ' कारस्य “इ” कारे “सिविण" इति प्राप्ते “अत ओत् सोः” (प्रा ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमाविभक्ति एकवचने “सु" इत्यस्य ओ कारे “सिविणो" इति रूपं सिद्धम्। __वेतसः > वेड़िसो “वेतस' इति स्थिते “प्रतिसरवेतसपताकासु डः" (प्रा. २.८) इत्यनेन सूत्रेण "त्" कारस्य ‘ड्' कारे “वेड़स" इति जाते “इदीषत्पक्वस्वप्नवेतसव्यजन मृदङ्गङ्गारेषु (च)” (प्रा. १.३) इत्यनेन सूत्रेण अनादि अ" कारस्य 'इ' कारे “वेड़िस" इति जाते “अत ओत् सोः” (प्रा. ५.१) इत्यनेन सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने 'सु' इत्यस्य "ओ" कारे “वेडिसो इति रूपं सिद्धम्।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy