________________
अज्विधिः प्राकृतमञ्जरी
57
ईषत् पक्वं तथा स्वप्नो वेतसो व्यजनं पुनः । मृदङ्गश्च तथाङ्गार एषु शब्देषु सप्तसु ॥ अत इद्वा भवेदीषदीसि वा पुनरीस वा । पक्कं पिक्कं च पक्कं च तथान्येष्वपि दृश्यताम् ॥ इत्त्वमीषत्पदे कैश्चिदीकारस्यापि चेष्यते ।
इसि चुम्बिअमित्यादि रूपं तेन हि सिध्यति ॥३॥ मनोरमा
ईषदादिषु शब्देषु आदेरतः स्थाने इकारादेशो भवति। वेति निवृत्तम् इसि, पिक्कं, सिविणो, वेड़िसो, वअणो, मिइङ्गो, इङ्गालो । अम्बिका
""
' आदेरतः " ( प्रा. १.१) इत्यतः " आदेः " तथा " अतः " शब्द द्वयमनुवर्त्तते, तथा सूत्रस्थ "च" पदेन " अनादि" इत्यस्यापि ग्रहणं स्पष्टम् ।
सूत्रार्थः
ईषत्, पक्वम्, स्वप्नः, वेतसः, व्यजनकम्, मृदङ्गः, तथा अङ्गारः आदि संस्कृत शब्दानाम् आदि - अकारः तथा कतिपयस्थानेषु अनादि (मध्य) “हस्व-अ" कारस्य स्थाने प्राकृते ' इत् अर्थात् हस्व “इ” कारः आदिश्यते।
ईषत् > इसि
'ईषत्' इति स्थिते "शषोः सः " (प्रो. २.४३ ) इत्यनेन सूत्रेण 'ष्' कारस्य 'स्' कारे ईसत् इति जाते " अन्त्य हलः” (प्रा. ४.६) इत्यनेन सूत्रेण अन्त्य हल् ‘त्' इत्यस्य लोपे 'ईस' इति स्थिते “इदीषत्पक्वस्वप्नवेतसव्यजनमृदाङ्गाऽङ्गारेषु” (च) (प्रा. १.३) इत्यनेन सूत्रेण "अ" कारस्य 'इ' कारे "इसि" इति रूपं सिद्धम् ।