________________
56
प्राकृत व्याकरणम् समन्वयः
कतिपयैः विद्वद्भिः विचार्यते यत् “समृद्धयादिगणे" अश्व शब्दस्य पाठं तु न वर्तते, अतः भामह आचार्येण अस्य प्रसङ्गस्य उल्लेखनम् चिन्तनीयम्, प्राकृतप्रकाशस्य चन्द्रिका व्याख्यायाम् अस्मिन् सूत्र प्रसङ्गे उक्तम् यत् “समृद्धयादिगणोक्तः अश्व शब्द पाठस्तु चिन्त्य एव"। ३. इदीषत्पक्वस्वप्नवेतसव्यजनमृदाग्ङाऽग्ङारेषु (च) सुबोधिनी
ईषदादिषु शब्देष्वादेरत इकारादेशः स्यात्।
इसि। सिविणो। पिक्कं। बेडिसो। बिअणं। मुइंगो। इंगालो। अग्ङारशब्दः संस्कृतसमोऽपि कचित्। चकारान्मध्यगतस्याप्यकारस्येत्वं क्वचित्। यथा मज्झिमं, मध्यमम्। चरिमं, चरमम्। संस्कृतसमोऽपि क्वचित् ॥3॥ सञ्जीवनी
ईषदित्यादिषु सप्तसु शब्देष्वादेरतः स्थाने इद् भवति। तकार उच्चारणार्थः चकरादनादेरपि। ईसि, ईषत्। सुप्रत्यये कृते अन्त्यस्य हलः इति प्रत्येकं सुतकारयोर्लोपः। पिकं, पक्कम्। सर्वत्र लवरामिति वलोपः। शेषादेशयोरित्यादिना ककारस्य द्वित्वम्। सिविणो, स्वप्नः। पूर्ववत् लोपः। आदेरस्य इत्वम्। श्रीही इत्यादिना पवयोर्विकर्षः। पूर्वस्य इकारः। पो वः इति वः। नो णः इति णः। अत ओ सोः इत्योत्वम्। वेडिसो, वेतसः। प्रतिसरवेतसेत्यादिना तस्य डः। मध्ये अस्येत्वम्। विअणअं, व्यजनकम्। अधो मनयाम् इति यलोपः। स्वार्थे को वा इति कप्रत्ययः। जस्य कगचादिना लोपः। मुइंगो, मृदङ्गः। उदृत्वादिषु इति ऋकारस्य उत्त्वम्। दलोपावशिष्टस्य अकारस्येत्त्वम्। नङोहलीति ङः स्थाने बिन्दुः। तस्य कपि तद्वर्गान्त इति वा ङत्वम्। इंगालो, अङ्गारः। हरिद्रादीनां रो लः इति लः। पूर्वदन्यत्। अङ्गारशब्दः संस्कृतसमोऽपीति केचित्।
चकरान्मध्यतोऽस्येत्त्वं मध्यमे चरमे तथा।
मज्झिम, मध्यमम्। ध्यायोझः इति ध्यस्य झः। तस्य द्वित्वे वर्गे युजः पूर्वः इति जः। चरिमं, चरम्। चरमशब्दः संस्कृतसमोऽपि केचित्॥३॥