________________
अज्विधिः सूत्रेण “प्" इत्यस्य लोपे, “पसुत" इति जाते, शेषादेशयोर्द्वित्वमनादौ (प्रा. ३.५०) इत्यनेन सूत्रेण 'त्' कारस्य द्वित्वे, “पसुत्त" इति जाते, "सोर्बिन्दुनपुंसके” (प्रा. ५.३०) इति सूत्रेण "नपुंसके सु” इत्यस्य बिन्दुत्वे (अनुस्वारे) “पसुत्तं” तथा “आ समृद्ध्यादिषु वा” (प्रा. १. २) इति सूत्रेण “आदि-अ" कारस्य विकल्पेन 'आ' कारे, (दीर्घ वा) "पासुत्तं" रूपद्वयं सिद्धम्।
प्रसिद्धि > पसिद्धी, पासिद्धी “प्रसिद्धी" इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे “पसिद्धि" इति स्थिते “उपरि लोपः कगडतदपषसाम्" (प्रा. ३.१) इत्यनेन सूत्रेण 'द्' कारस्य लोपे “पसिधि” इति स्थिते, "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण "ध्" इत्यस्य द्वित्वे “पसिध्धि" इति स्थिते “वर्गेषु युजः पूर्वः (प्रा. ३.५१) इत्यनेन “ध्" कारस्य 'द्' कारे “पसिद्धि" इति स्थिते “सुभिसुप्सु दीर्घः" (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दीर्घ “पसिद्धी" इति जाते “आ समृद्धयादिषु वा" (प्रा. १.२) इत्यनेन सूत्रेण 'आदि-अ' कारस्य विकल्पेन "आकारे" (दीर्घत्वे) 'पासिद्धी' इति रूपद्वयं सिद्धम्।
____ अश्वः > अस्सो, आस्सो "अश्व" इति स्थिते सर्वत्र लवराम्” (प्रा. ३.३) इति सूत्रेण 'व्' इत्यस्य लोपे “शषोः सः” (प्रा. २.४३) इत्यनेन सूत्रेण 'श्' इत्यस्य 'स्' कारे 'अस' इति स्थिते "शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इति सूत्रेण ‘स्' इत्यस्य द्वित्वे, “अस्स' इति स्थिते “अत ओत् सोः” (प्रा. ५.१) इति सूत्रेण अदन्तस्य प्रथमा विभक्ति एकवचने “सु" इत्यस्य ओत्वे “अस्सो" इति प्राप्ते “आ समृद्धयादिषु वा" (प्रा. १.२) इति सूत्रेण “आदि अ" कारस्य विकल्पेन दीर्घत्वे “अस्सो" इति रूपं सिद्धम्। “अस्स" शब्द शौरसेनी प्राकृते सर्वदा लभ्यते। (रिचर्डपिशल “प्राकृतभाषाओं का व्याकरण' पृ. ५६५७ (ग्रामातिक देर प्राकृतस्पारवेन, डॉ. हेमचन्द्र जोशी कृत "हिन्दी अनुवाद, विहार राष्ट्रभाषा परिषद् पटना)।