SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 54 "आ" कारे (दीर्घत्वे) "पाड़िवआ" इतिरूपं सिद्धम् । सदृक्षम् > सरिच्छं, सारिच्छं “सदृक्षम्” इति स्थिते “क्वचियुक्तस्यापि ” (प्रा. १.३१) इत्यनेन सूत्रेण, 'ऋ' कारस्य 'रिकारे सद्दिक्ष इति स्थिते, “कगचजतदपयवां प्रायो लोपः इत्यनेन " द्” कारस्य लोपे “ सरिक्ष" इति स्थिते “अक्ष्यादिषुच्छः” (प्रा. ३.३० ) इति सूत्रेण “क्ष्" इत्यस्य “छ्” कारे “सरिछ” इति जाते “ शेषादेशयोर्द्वित्वमनादौ” (प्रा. ३.५०) इत्यनेन सूत्रेण “छ्” इत्यस्य द्वित्वे "सरिछ्छ” इति जाते, “वर्गेषु युजः पूर्वः (प्रा. ३.५१) इत्यनेन सूत्रेण “छ्” कारस्य "च्" कारे, “सरिच्छ” इति जाते आ समृद्धयादिषु वा ” (प्रा. १. २) इति सूत्रेण " आदि - अ" कारस्य विकल्पेन आ' कारे "सो बिन्दुनपुंसके” (प्रा. ५.३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) सरिच्छं, सारिच्छं इति रुपद्वयं सिद्धम् । प्राकृत व्याकरणम् प्रतिषिद्धिः > पड़ि सिद्धी, पाड़ि सिद्धी “प्रतिषिद्धि” इति स्थिते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण ! 'र्' कारस्य लोपे, “पतिषिद्धि" इति स्थिते, “शषोः सः (प्रा. २.४३) इत्यनेन सूत्रेण 'ष् ' कारस्य 'स्' कारे "पतिसिद्धि” इति जाते, “उपरि लोप कगडतदपषसाम्” (प्रा. ३.१) इत्यनेन सूत्रेण 'द्' कारस्य लोपे, “पतिसिधि” इति जाते, “ शेषादेशयोर्द्वित्वमनादौ " (प्रा. ३.५० ) इत्यनेन सूत्रेण 'धू' कारस्य द्वित्वे "पतिसिध्धि” इति जाते, वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इत्यनेन सूत्रेण पूर्व 'ध्' कारस्य 'द्' कारे, "पतिसिद्धि” इति जाते, “प्रतिसरवेतसपताकासुड़: " (प्रा. २८) इत्यनेन सूत्रेण 'त्' कारस्य "ड्” कारे, “पड़िसिद्धि" इति जाते, “सुभिसुप्सु दीर्घः” (प्रा. ५.१८) इत्यनेन सूत्रेण इदन्तस्य दीर्घे "पड़िसिद्धी” तथा “आ समृद्धयादिषु वा ” (प्रा. १. २) इत्यनेन सूत्रेण ‘आदिअकारस्य दीर्घे पाड़िसिद्धी, इति रूपद्वयं सिद्धम् । प्रसुप्तम् > पसुत्तं पासुत्तं प्रसुप्तम् इति स्थिते, “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'र्' कारस्य लापे, “उपरि लोप कगडतदपषसाम्” (प्रा ३.१) इत्यनेन
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy