________________
अज्विधिः ३०) इत्यनेन सूत्रेण नपुंसके 'सु' इत्यस्य बिन्दुत्वे (अनुस्वारे) ‘पअडं इति जाते “आ समृद्धयादिषु वा” (प्रा. १.२) इत्यनेन सूत्रेण आदि 'अ' कारस्य विकल्पेन “आ” कारे “पाअडं” इति रूपं सिद्धम्।
अभिजाति > अहिजाई, आहिजाई - "अभिजाति" इति स्थिते “खघथधभां हः” (प्रा. २.२७ इत्यनेन सूत्रेण "भ्" इत्यस्य "ह" कारे “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'त्' इत्यस्य लोपे “अहिजाइ” इति स्थिते, “सुभिसुप्सु दीर्घः" (प्रा. ५.१८) इत्यनेन सूत्रेण 'इ' कारस्य "ई" कारे “अहिजाई तथा “आ समृद्धयादिषु वा” (प्रा १.२) इत्यनेन सूत्रेण आदि "अ" कारस्य दीर्घत्वे (आ) विकल्पेन “आहिजाई" इति रूपं सिद्धम्।
मनस्विनी > मणंसिणी, माणंसिणी "मनस्विनी" इति स्थिते “नोणः सर्वत्र" (प्रा. २.४२) इत्यनेन सूत्रेण “न्” कारस्य 'ण' कारे, “वक्रादिषु" (प्रा. ४.१५) इत्यनेन सूत्रेण बिन्दुरागमे “मणंस्विनी" इति स्थिते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण “व्” कारस्य लोपे, “मणंसिनी” इति स्थिते पुनः “नोणः सर्वत्र" (प्रा. २.४२) इति सूत्रेण "मणंसिणी" इति रूपं तथा च “आ समृद्धयादिषु वा” (प्रा. १.२) इत्यनेन सूत्रेण 'आदि' 'अ' कारस्य (दिर्घत्वे) आ कारे विकल्पेन "माणंसिणी" इति रूपं सिद्धम्।
प्रतिपदा > पड़िवआ, पाड़िवआ 'प्रतिपदा' इति स्थिते “सर्वत्र लवराम्" (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे, “पतिपदा' इति स्थिते "पोवः (प्रा. २.१५) इत्यनेन सूत्रेण अनादि ‘प्' कारस्य ‘व्' कारे ‘पतिवदा' इति जाते "कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण "द्" कारस्य लोपे “पतिवआ" इति जाते “प्रतिसरवेतसपताकासु डः” (प्रा. २. ८) इत्यनेन “त्" कारस्य 'ड्' कारे “पडिवआ इति रूपं प्राप्ते, आ समृद्ध्यादिषु वा” (प्रा १.२) इति विकल्प सूत्रेण आदि 'अ' कारस्य