________________
52
प्राकृत व्याकरणम् सामिद्धी, पअडं, पाअडं, अहिजाई, आहिजाई, मणंसणी, माणसणी, पड़िवआ, पाड़िवआ, सरिच्छं, सारिच्छं, पडिसिद्धी पाड़िसिद्धी, पसुत्तं पासुत्तं, पसिद्धि, पासिद्धि, अस्सो, आसो॥ समृद्धि-प्रकटाभिजाति मनस्विनी प्रतिपदा सदृक्ष-प्रतिषिद्धि प्रसुप्त प्रसिद्धयश्वाः॥ आकृतिगणोऽयम्। अम्बिका
“आदेरतः" (प्रा. १.१) इत्यतः “आदेः” तथा “अतः” इति पदद्वयमनुवर्तते। सूत्रार्थः
“समृद्धि" आदि संस्कृत शब्देषु आदौ विद्यमान हस्व 'अ' कारस्य स्थाने विकल्पेन दीर्घ "आ" कारः भवति। प्रकटम्, अभिजाति, मनस्विनी, प्रतिपदा, सक्षम्, प्रतिसिद्धिः, प्रसुप्तम्, प्रसिद्धि तथा अश्वादि शब्द ग्रहण निमित्तं सूत्रे “आदि" शब्दस्य ग्रहणम्।
समृद्धि > सामिद्धी, समिद्धी “समृद्धि" इति स्थिते “इदृष्यादिषु” (प्रा. १.२८) इत्यनेन सूत्रेण 'ऋ' कारस्य 'इ' कारे ‘समिद्धि' इति जाते, उपरिलोप कगडतदपषसाम्" (प्रा. ३.१) इत्यनेन सूत्रेण 'द्' कारस्य लोपे ‘समिधि' इति जाते, "पोपादेशयोर्तृित्वमनादौ'' (प्रा. ३.५०) इत्यनेन सूत्रेण 'ध' इत्यस्य द्वित्वे 'समिध्धि' इति जाते, “वर्गेषु युजः पूर्वः” (प्रा. ३.५१) इत्यनेन सूत्रेण 'ध्' कारस्य 'द्' कारे ‘समिद्धि' इति जाते “सुभिसुप्सुदीर्घः (प्रा. ५. १८) इत्यनेन सूत्रेण 'इ' कारस्य दीर्घ “आ समृद्धयादिषु वा” (प्रा. १.२) इत्यनेन सूत्रेण आदि 'अ' कारस्य विकल्पेन "आ" कारे "सामिद्वी" तथा विकल्पाभावे “समिद्धी" इति रूपं सिद्धम्। '
प्रकटम् > पाअडं पअडं “प्रकटम्” इति स्थिते “सर्वत्र लवराम्” (प्रा. ३.३) इत्यनेन सूत्रेण 'र' कारस्य लोपे, “कगचजतदपयवां प्रायो लोपः” (प्रा. २.२) इत्यनेन सूत्रेण 'क्' कारस्य लोपे “पअट" इति स्थिते “टोडः (प्रा. २.२०) इत्यनेन सूत्रेण 'ट' कारस्य ‘ड्' कारे, “सोविन्दुनपुसंके” (प्रा. ५.