________________
51
अज्विधिः तस्य आत्वम्। अन्त्यस्य हल इति सुलोपः। पाअडं, पअडं, प्रकटम्। कगचजादिना कलोपः। टोडः इति डः। सारिच्छं, सरिच्छं, सक्षम्। क्वचिद् युक्तस्यापीति ऋकारस्य रिः। अक्ष्यादिषु छः इति छः। तस्य द्वित्वे वर्गे युजः पूर्वः इति चकारः।
समृद्धिः प्रतिषिद्धिश्र प्रसिद्धिश्च मनस्विनी। अभिजातं प्रसुप्तं च प्रतिपत् प्रकटं तथा॥ सदृक्षञ्चैवमादिः स्यात् समृद्धयादिगणः किल॥ वाशब्दस्य व्यवस्थावाचित्वात् क्वचिनित्यमात्वम्। वाससअं, वासारत्तो, वर्षशतवर्षा रात्रयोः। शषोः सः इति शषयोः सः अदातो यथादिषु वा इत्यत्र वा आत्वम्। सर्वत्र लवरामिनि तयो रेफलोपः तत्रोपर्यध इत्यनुवृत्तेः केवलानां लवरां लोपाभावः। शेषादेशादिना तकारस्य द्वित्वम्। उभयत्रापि सकारस्य न भवति। ‘विन्द्वादीदूत्परस्येह द्वित्वं शेषस्य नेष्यते' इति द्वित्वप्रतिषेधात् पासिण्णं, सासू प्रस्विन्नश्रश्रूशब्दयोः॥२॥ प्राकृतमञ्जरी
अनेकेषामकाराणामकारस्यादिभाविनः। समृद्धयादिषु शब्देषु स्यादाकारो विकल्पतः॥ समृद्धिरिति सामिद्धी समिद्धी वा भवेत् पुनः। सक्षमिति सारिच्छं सरिच्छं वा निगद्यते॥ प्रसुप्त इति पासुत्तो पसुत्तो वाभिधीयते। शेषेष्वपि विमृश्यन्तामेवं रूपविपर्ययाः॥ समृद्धिश्च सदृक्षश्च प्रसुप्तः प्रकटस्तथा। प्रसिद्धिरभिजातिश्च प्रकृतिश्च मनस्विनी॥ प्रतिस्पर्धीति विज्ञेयः समृद्धयादिरयं गणः।
लक्ष्येऽन्यत्रापि यल्लक्ष्यं तदप्यन्तर्भवं पदम्॥२॥ मनोरमा
समृद्धि इत्येवमादिषु शब्देष्वादेरकारस्याऽऽकारो भवति वा। समिद्धी,