SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 50 प्राकृत व्याकरणम् समृद्धिः प्रतिषिद्धिश्च प्रसिद्धिश्च मनस्विनी। अभिजातं प्रसुप्तञ्च प्रतिपत् प्रकटं तथा॥ .. सद्दक्षमिति संप्रोक्तः समृद्ध्यादिगणः किल॥ . सामिद्धी, समिद्धी। पाडिसिद्धी पडिसिद्धी। पासिद्धी, पसिद्धी। मासिणी, मणंसिणी। आहिआअं, अहिआ। पासुत्तं, पसुत्तं। पाडिवआ, पडिवआ। पाअडं, पअडं। सारिच्छं, सरिच्छं। वाशब्दस्य व्यवस्थावाचित्वात् वचिनित्यमात्वम्। यथा वाससअं, वासारत्तं, वर्षशतम्, वर्षारात्रम्। पासिण्णं, प्रस्विन्नम्। सासू, श्वश्रूः। एवमन्ये लक्ष्याऽनुसारेण बोद्धव्याः॥२॥ सञ्जीवनी .. .. आदिशब्दः प्रकारे। प्रकारः साद्दश्यम्। तथा चोक्तम् सामीप्येऽथ व्यवस्थायां प्रकारेऽवयवे तथा। आदिशब्दं तु मेधावी चतुष्वर्थेषु लक्षयेत्॥ तेन समृद्विशब्देन सदृशाः समद्धयादयः। तेषु समृद्धयादिषु शब्देष्वादेरादिभूतस्या तोऽकारस्याऽऽकारादेशो भवति वा। सामिद्धी, समिद्धी, समृद्धिः। सुप्रत्यये कृते स्वजातीयापेक्षया आदिभूतस्याकारस्यानेन बा आत्वम्। एवमन्येषूदाहरणेषु। इदृष्यादिषु वेति ऋकारस्येत्वम्। सुभिससुप्सु दीर्घ इति दीर्घत्वम्। अन्त्यस्य हल इति सुप्रत्ययत्य लोपः। पाडिसिद्धी, पडिसिद्धी, प्रतिषिद्धिः। सर्वत्र लवरामिति रलोपः। प्रतिसरवेतसपताकासु डः इति तकारस्य डः। शषोः स इति षस्य सः। दीर्घसुलोपौं पूर्ववत्। एवं पासिद्धी, पसिद्धी, प्रसिद्धिः। माणंसिणी मणंसिणी, मनस्विनी। वक्रादिष्विति नात्परोऽनुस्वारः। सर्वत्र लवरामिति वलोपः। नो णः सर्वत्रे नद्वयस्य प्रत्येकं णः। आहिआअं, अभिजातम्। कगचजतदपयवां प्रायो लोप इत्यादिना अनयोर्जतयोलोपः। खघथधभामित्यादिना भस्य हः। नपुंसके सोर्बिन्दुरिति बिन्दुः। पासुत्तं पसुत्तं, प्रसुप्तम्। सर्वत्र लवरामिति रलोपः। उपरि लोप इत्यादिना पलोपः। शेषादेशादिना तकारस्य द्वित्वम्। पूर्ववत् सोर्बिन्दुः। पाडिवआ, पडिवआ, प्रतिपत्। पूर्ववद् रलोपः। प्रतिसरवेतसपताकासु डः इति तस्य डः। पो वः इति पस्य वः। आदेस्तस्य न भवति। तत्रायुक्तस्यानादावित्यधिकारात्। स्रियामादित्यस्यान्त्यस्य हलः,
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy