________________
अज्विधिः
वररूचि-रचित-प्राकृत-लक्षण सूत्राणि लक्ष्यमार्गेण बुद्ध्वा चकार वृत्तिं संक्षिप्तां भामहः स्पष्टाम्॥
अधिकारोऽयम्। यदित ऊर्ध्वमनुक्रमिष्याम आदेश्तः तदभवतीत्येवं वेदितव्यम्। आदेरित्येतदापरिच्छेद समाप्तेः। अत इति चाकारविधानात् अत इति तकारग्रहणं सवर्ण निवृत्त्यर्थम्॥२॥ अम्बिका - या नित्यं मनुतेऽम्बिकां मधुमयीं स्वाभीप्सितां देवताम्
याऽसक्तागुरूपादपङ्कजयुगे नाम्ना पराम्वापदे।
सावित्री तनया च या वृतवती गौरीव्रतं पावनं प्रोत्याऽसौ सलिला प्रकाशमहितं वक्ति श्रिया प्राकृतम्।
अम्बिकाभिधटीकेयं प्राकृतार्थ प्रकाशिनी।
विदुषां परितोषाय भूयानूनं दिने-दिने॥ अधिकार सूत्रमिदम्। अस्मिन् परिच्छेदे, अस्मात् सूत्रादनन्तरम् यानि विधानानि उल्लोखिष्यन्त तानि सर्वाणि शब्दस्यादौ स्थितस्य" हृस्व-अ-कारस्यस्थाने एवं आदिष्यन्ते इति तात्पर्यम्।
सूत्रस्थ “आदेः" शब्दस्याधिकारः परिच्छेद समाप्तिं पर्यन्तं। परन्तु “अतः” (अ) पदस्याधिकारः परिच्छेदस्य नव सूत्राणियावत् वर्तते, यतः नवमसूत्रादनन्तरम् हस्व "अ" कारस्यस्थाने दीर्घ “आ” कारस्य विधानं विधीयते।
पाणिनि सूत्रं “तपरस्तत्कालस्य' नियमेन सूत्रस्य “अत्" शब्दस्य 'त' कारस्य ग्रहणं “हस्व अ" कारं वोधयितुम्, न तु दीर्घादि सवर्णानाम्। परिच्छेदेस्य नवम सूत्रं यावत् सर्व-विधानं शब्दस्यादौ स्थित हस्व 'अ' कारस्य स्थाने भवतीतिस्पष्टम्। २. आ समृद्ध्यादिषु वा सुबोधिनी
समृद्ध्यादिर्गणस्तस्याऽऽदेरकारस्याऽऽकारदेशो भवति वा।