________________
48
प्राकृत व्याकरणम्
उदेतु भगवान् भानुरूदयाद्रेरिवात्मनः।
येन वाचो यथार्था नः स्फुरन्ति सगुणाः स्वयम्॥२॥ प्रसीदन्तु च वाचस्ता यासां माधुर्यमुच्छ्रितम् । प्राकृतच्छद्याना चक्रे कात्यायनो महामुनिः ॥३॥ व्याकर्त्तुं प्राकृतत्वेन गिरः परिणतिं गताः । कोऽन्यः शक्तो भवेत् तस्य कवेः कात्यायनादृते ॥४॥ अहो तत् प्राकृतं चारू प्रियावक्त्रेन्दु सुन्दरम् । सूक्तयो यत्र राजन्ते सुधानिष्यन्दनिर्भराः ॥५ ॥ वन्दे वररूचिं तं च यत्प्रज्ञामञ्जरीमधुः । अद्याप्यास्वादयन्त्येव हृद्यं विद्वन्मधुव्रताः ॥६॥ कात्यायनप्रणीतेऽस्मिन् प्राकृताब्धौ तितीर्षया । अप्रज्ञाप्रोततन्त्राय नमो मह्यं निमज्जते ॥७॥ यावत् प्राकृतसूत्राणि व्याख्यास्यामो वयं पुनः । न विद्यादर्पकण्डुत्या केवलं तद्विवित्सया ॥८॥ तत्प्रसन्नाशयाः सन्तो दद्युः श्रवणगोचराम् । इमां वररूचिप्रज्ञावल्याः प्राकृतमञ्जरीम् ॥९॥ विब्रियन्तेऽत्र सूत्रार्था गम्यन्ते रूपसिद्धयः। पठयन्ते च गणास्ते ते तत्र तत्र यथायथम्॥१०॥ आदेरित्यधिकारोऽयमापरिच्छेदपूरणात्।
अत इत्यपि तस्मात् प्रागात इत्यपि यो विधिः॥ एकस्मिन्नेव शब्दे स्यादेक एवादनेकशः । आदेरिति तदादेः स्यान्न पदादेरिति स्मृतिः ॥ ११ ॥
मनोरमा
जयति मदमुदित- मधुकर मधुर रूताकलन- कूणितापाङ्गः कर विहित - गण्ड-कण्ड - ड - विनोद - सुखितो गणाधिपतिः॥२॥