________________
प्रथमः परिच्छेदः अज्विधिः
सुबोधिनी
प्रणम्य परमं धाम सदानन्देन तन्यते । वृत्तिः प्राकृतसूत्राणां शुद्धबोधानुबोधिनी ॥ अज्विधिरयुक्तविधिरथ संयुक्तविधिस्ततश्वसङ्कीर्णः । सुप्तिङ्घातु निपात विधयोऽष्टाविह परिच्छेदाः॥ सिद्धशब्दः समाम्नायः । प्रकृतिप्रत्ययविभागाः पाणिनीयानुसारेण वेदितव्याः। अथ तत्र महाराष्ट्री भाषाऽनुवर्ण्यते ।
सञ्जीवनी
अविधिरयुक्तविधिः संयुक्तविधिस्ततस्तु सङ्कीणः । सुप्तिङ्घातुनिपातजविधयोऽष्टाविह परिच्छेदाः ॥
१. आदेरतः
सुबोधिनी
यद्वक्तव्यं कार्यं तदादिभूतस्यातोऽकारस्य वेदितव्यम् । अधिकारसूत्रमिदम्। आदेरित्यस्यापरिच्छेदसमाप्तेरधिकारः। अत इत्यस्य तु अदात इत्यादिसूत्रात् प्राक् (संख्या ९ ) ॥१॥ सञ्जीवनी
अधिकारो ऽयम् । इत ऊर्ध्वं यदनुक्रमिष्याम आदेरादिभूतस्यातोऽकारस्य तद्भवतीत्यधिकृतं वेदितव्यम् । आ परिच्छेदपरिसमाप्तेरादेरित्यस्याधिकारः । अत इत्यस्य 'आतो यथादिषु वा' (सूत्र संख्या ९) इत्यतः प्राक् ॥१॥ प्राकृतमञ्जरी
इदमन्धतमो भित्त्वा यज्ज्योतिर्भासते परम् । नमो भगवते तस्मै सूर्याय परमात्मने ॥१॥