________________
(vi) च भाषयो मैवैकस्याः कृत्तिमत्वम् अपरस्याश्च सर्वादित्वं ख्यापयति। संस्कृत मिति कृतसंस्कारां वाचमाचष्टे पदम्। नहि संस्कारेण विना संस्कृतमिति केनाप्युच्यते। संस्कारश्च मनुष्यक्रियया निष्पाघ इति स्पष्टं कृत्रिमत्वं संस्कृतभाषायाः। ___ वैदिक भाषायाः शब्दा अपि मूलभूतैः शब्दान्तरैर्निष्पादिता इति श्रुतिष्वेव सुस्पष्टमुपलभामहे। तद्यथाइन्द्रः १. “स योऽयं मध्ये प्राणः, एष एवेन्द्रस्तानैष प्राणान् मध्यत इन्द्रियेणैन्द्धत तस्मादिन्ध, इन्धो हवै तमिन्द्र इत्याचक्षते परोक्षम्, परोक्षका मा हि देवाः"। (शत. ब्रा., ६.१.१.२२) २. “इन्धो वै नामैष योऽयं दक्षिणेऽक्षम् पुरुषस्तं वा। एतमिन्धं सन्तमिन्द्र इत्याचक्षते परोक्षेणैव परोक्षप्रिया इव हि देवाः प्रत्यक्षद्विषः"।
(शत. ब्रा., १४.६.११.२) ३. “इदमदर्शमितीइँ तस्मादिन्द्रो हवै नाम, तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षेण परोक्षप्रिया इव हि देवाः।"
(तैत्तिरी. ब्रा., २.२.१०.६३) अङ्गिराः १. “संतप्तस्य सर्वेभ्योऽङ्गेभ्योरसोऽक्षरत्सोङ्गरसोऽभवत्तं वा एतमङ्गरसं सन्तमङ्गिरा इत्याचक्षते परोक्षेण, परोक्षप्रिया इव हि देवा भवन्ति प्रत्यक्षद्विषः"। (गो. ब्रा., २.१.७) २. अङ्गिरसोऽङ्गानां हि रसः। (शत. ब्रा., १४.४.१८) ३. अतो हीमान्यङ्गानि रसं लभन्ते तस्मादङ्गिरसः"
(जैमिनी उप., २.४.२.८) अन्तरिक्षम् १. “यदस्मिनिदं सर्वमन्तस्तस्मादन्तरिक्षम् अन्तयक्षं ह वै नामैतत्, तदन्तरिक्षमिति परोक्षमाचक्षते"। (जैमिनी. उ., १.२०.४) २. “अन्तरेव वा इदमिति तदन्तरिक्षस्यान्तरिक्षत्वम्"।
(ताण्डयमहा ब्रा., २०.१४.२)