SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ भूमिका अर्वाचीन विज्ञानयुगस्य भाषाक्षेत्रे प्राकृत भाषायाः सुमहत्स्थानं वर्त्तते इति सुविदितमेव । प्राकृतभाषा विषयकाध्ययनप्रवृत्तिर्मुख्यतो भाषाणां परस्परं कञ्चन साम्य विशिष्टं भेदमवलम्ब्येव जाता । उपलभ्यमानेषु ग्रन्थेषु वेदस्तावत् सर्वेभ्यः प्राचीन इति तु सर्वैरेवाभ्युपगम्यते । तथा चोपलभ्यमानासु भाषासु वेदभाषा सर्वतः पुरातनीत्यत्रापि न कश्चिदपि विवदितुमुत्सहेत । अयं च वेदो येषां मते अनादिरीश्वरप्रणीतः, तन्मते नापरमवशिष्यते वक्तुम् । ये तु वेदमनादिं नाभ्युपगच्छन्ति ते एव कल्पयन्ति - वेद भाषातोऽपि प्रागासीत् काचन भाषेति । सा च प्रकृतिसिद्धत्वात् प्राकृतपदेनाभिधेया । तस्याः परिष्कृतं रूपं वेदभाषा, सैव च किंचिद् वैलक्षण्यमाप्ता संस्कृतभाषात्वमापेदे । यूरोपीयास्तदनुयायिनश्व अद्यानुमिन्वते यत् वैदिक भाषातः पूर्वमासीत् काचन प्राकृतमिति समाख्याता भाषा, ततएव समुत्पन्ना वैदिकी भाषा संस्कृत भाषा च। नाटकेषुपलभ्यमाना विविधाः प्राकृतभाषा अपि तत एव समुदपद्यन्त। अन्या अपि च यूरोपीयादि भाषा स्तस्या एव सन्तती भूताः । तस्याः किमासीत् स्वरूपं कियांश्च प्रसिद्धायाः संस्कृतभाषाया अपेक्षया, वैदिक भाषापेक्षया वा तत्रासीद् भेद इति तु न केनाप्यद्यावधि निर्णेतुं पारितम्, परमासीत् सेति सर्वेऽपि रारटन्ति । स्वभाव एवैष यूरोपीयाणां यत्ते प्रसिद्धं परित्यज्याप्रसिद्धमूलं परिकल्पयितुं भवन्ति संनद्धा इति । यथा मनुष्यादेव मनुष्योत्पत्तिरिति न ते क्षमन्ते, किन्तु मनुष्याणां मूलभूता काचन अप्रसिद्धा गोरेला जातिरिति प्रतिष्ठापयन्ति । तथैवात्रापि सुपसिद्धायाः संस्कृतभाषाया भाषान्तराणामुत्पत्तिर्न तेभ्यो रोचते, अपितु मूलभूता काचिदन्यै वासीद् भाषेतिकल्पनं तान् प्रीणयति । अत्र तु युक्तिरेषा समुपन्यस्यते यत् " प्राकृतम्” संस्कृतम्” इति
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy