________________
प्राकृतव्याकरणस्य परम्परा ८. प्राकृतप्रकाशे वर्णितः सर्वाः प्राकृतभाषाः तदुत्तरवर्ती अन्य
प्राकृत व्याकरण ग्रन्थेषु सम्यक्पे ण उपलभ्यते। परन्तु “प्राकृत प्रकाशः" अस्मिन् ग्रन्थे अविवेचितः अर्द्धमागधी प्राच्या, आवन्ती तथा दाक्षिणात्यादि भाषाः तथा शाकारी, टाक्की, आभीरी च विभाषाः, पैशाच भाषाणामनेकानि रूपाणि कतिपयैः विद्वद्भिः कृताः, किन्तु तासु कतिपय भाषाः प्राकृतस्य सीमा वहिर्भूता तथा अन्याभाषाणाम् प्रयोगमपिललितसाहित्ये नभवति। अतः 'प्राकृतप्रकाशे' तात्कालीन साहित्ये प्रयुक्त प्राकृतभाषाणाम्
विवेचनासीत् इति निष्कर्षः। प्राकृतप्रकाशः, प्राकृतव्याकरणस्य सूत्रपातेन सह अनेकै रूपैः तस्य परम्परां प्रभावितं कृतः। प्राकृतप्रकाशे कतिपय दोषमेव वर्तते १. प्राकृतप्रकाशस्य कतिपय अध्यायेषु पौर्वापर्य विपर्यास कारणेन
कतिपय स्थानेषु आन्तरिक संङ्गतेरभावः परिलक्षते। उदाहरण स्वरूपं द्ववादशः परिच्छेदेषु प्रथम नव परिच्छेदः महाराष्ट्री प्राकृतभाषा विषये विविच्यते, परन्तु अस्मिन् विषये कुत्रचिदपि ग्रन्थकारेण नोल्लिख्यते। द्वादश परिछेदस्य अन्तिम सूत्रे "शेष महाराष्ट्रीवत्" इति दशमः अध्यायस्य सम्बन्धः पैशाचीभाषया सह, एकादशः अध्यायस्य सम्बन्धः मागधी प्राकृतभाषया सह तथा द्वादशः अध्यायस्य सम्बन्धः शौरसेनी प्राकृत भाषया सह इति विविच्यते। ग्रन्थस्य प्रारम्भे कतिपय सूत्राणाम भावः प्रतीयते। नवपरिच्छेदेषु विवेचितप्राकृतस्य नामोल्लेखः ग्रन्थे न लभ्यते न तु तस्या भाषायाः प्रकृतिविषये। द्वादशपरिच्छेदस्यान्तिम-सूत्रं “शेषं महाराष्ट्रीवत्", इति सूत्रे “महाराष्ट्री" पदस्य संकेतः नवसु अध्यायेषु प्राकृतेषु संश्लिष्टम्। उदयरामशास्त्रीडबरालमहोदयेन महाराष्ट्री पदस्य टिप्पण्यवसरे उक्तम्- “अत्र महाराष्ट्रीपदेन प्राकृतस्य ग्रहणं बोध्यम्"।
एतेन स्पष्टमिदं यत्, वररुचिना नव परिच्छेदेषु “महाराष्ट्री" प्राकृतपर्यायत्वेन अभिधीयते। तथा प्रकृतिरस्याः संस्कृतम्। अतः