________________
44
प्राकृत व्याकरणम् हेमचन्द्रस्य प्राकृत व्याकरणे प्रथम सूत्रं “अथ प्राकृतम्" तथा
द्वितीयसूत्रं "प्रकृतिः संस्कृतम्” इति उपलभ्यते। ३. कतिपयानि सूत्राणि स्थान भ्रष्टानीव प्रतीयते। यथा “क्तेन
दिण्णादयः” सूत्रं अष्टमपरिच्छेदस्य धात्वादेश प्रकरणे लभ्यते। प्रकरणस्य संगतिस्तु न युक्तमि व्यनुमीयते। कतिपयानि सूत्राणि स्व विवक्षितार्थ न प्रकाशयन्ति। यथा द्वादश परिच्छेदस्य सूत्रं “अनन्त्य एच्च"। विवक्षितार्थस्तावत् अनन्त्यस्य 'ए' कारः भवति शौरसेनी प्राकृतभाषायाम्। यथा करोति > करोदि। परं सूत्रस्थ “अनन्त्य" शब्दः अन्त्यभिन्नः सर्वेषु ध्वनिषु निर्दिश्यते, यथा “केरेदि” तथा “केरोदि"। .. प्रसिद्धसाहित्यिकप्राकृत “अर्धमागधी” – विषये प्राकृतप्रकाशे न कुत्राऽपि उल्लिख्यते। श्वेताम्बर जैन सम्प्रदायस्य सर्वमूलागम ग्रन्थानां रचना अनया प्राकृतभाषाया कृता। अतः इयं तु प्राकृतप्रकाशस्य अन्यतमा त्रुटिः इति मन्यते। कतिपयप्राकृत भाषाणामावश्यक नियमोऽपि न लभ्यते। मागधीप्राकृतस्य प्रकरणे टीकाकारः भामहेन पुरुषः > पुलिशे तथा राक्षसः लस्कसे इति उदाहरणानां अवधारणा क्रियते। एतेन स्पष्टमिदं प्रतीयते यत् संस्कृतस्य "र" कारध्वनिः मागधी प्राकृते "ल" - कारेण परिवर्तते। परं प्राकृतप्रकाशे नास्ति किञ्चित
सूत्रं येनइदं परिवर्तनं नियमवद्धं भवति।। ७. सम्पूर्ण “प्राकृतप्रकाशं" अधीत्यापि, प्राकृतभाषायाम् कतिध्वनीनाम्
प्रयोगः भवति इति न कोऽपि वक्तुं समर्थः भवति। अतः हेमचन्द्रेण स्व रचित प्राकृतव्याकरणे प्रथमसूत्रस्य व्याख्याप्रसङ्गे आवश्यकसंकेतः प्रदत्तः। ___ परं निष्कर्षस्तु अयमेव प्राकृत व्याकरणेषु प्राकृत प्रकाशस्य स्व महत्त्वं वरीवर्त्तते।