________________
42
प्राकृत व्याकरणम् ४. “प्राकृत और उसका साहित्य-(हिन्दी) डॉ. हरदेव बाहरी। प्राकृतप्रकाशस्यवैशिष्ट्यम्
प्राकृतव्याकरणस्यपरम्परा तथा संस्कृतभाषया रचित प्राकृत व्याकरण ग्रन्थोपरि “प्राकृतप्रकाश" ग्रन्थस्य महती प्रभावः परिलक्षते। १. “प्राकृतप्रकाशः" इति ग्रन्थे महाराष्ट्री, शौरसेनी भाषयोः
मूलप्रकृति संस्कृतं तथा "मागधी", पैशाची" भाषयोः प्रकृति शौरसेनी इति निर्दिश्यते। इयं उक्ति उत्तरवर्ती व्याकरणेऽपि समरूपेण लभ्यते। “प्राकृतप्रकाशः” इति ग्रन्थे महाराष्ट्री भाषायाः सामान्य प्राकृतरूपस्य विवेचनं तथा तामाधारी कृत्वा अन्य विशिष्ट प्राकृतभाषाः विविच्यते। अन्य प्राकृत ग्रन्थे इदमार्गमिति स्वीक्रियते। प्राकृतप्रकाशे वर्णितमन्य प्राकृत भाषाणां वैशिष्ट्यं, संशोधित तथा परिवर्धित रूपे अन्येषु ग्रन्थेषु लभ्यते। प्राकृतप्रकाशस्य वहुनि सूत्राणि परवर्ती व्याकरणग्रन्थेषु वैयाकरणैः संयुज्यते। अस्मिन् सम्बन्धे हेमचन्द्रकृत “प्राकृतव्याकरणं" विशेषरूपेण ग्रहणीयम्। अनेन इदमेव सिद्ध यत् प्राकृतप्रकाशस्य सूत्राणि तदुत्तरवर्ती वैयाकरणेभ्यः आदर्शमेव। प्राकृत विवेचन विषये “युक्तवर्णविधि” तथा “सुविधि" आदि रूपेण यानि विधानानि प्राकृतप्रकाशे विविच्यते, तानि सर्वाणि विधानानि तदुत्तरवर्ती व्याकरणग्रन्थेषु उपलभ्यते। प्राकृतानांविवेचन स्वतन्त्ररूपे नाङ्गीकृत्वा संस्कृत भाषायाः विकास रूपे तेषां अध्ययनंकृतम् या, सर्वेषु व्याकरणग्रन्थेषु उपलभ्यते। "संस्कृत व्याकरण" स्य पारिभाषिक शब्दाः तथा तस्य उत्सर्गापवादौ, पद्धति च प्राकृतप्रकाशे येन रूपेण वर्णितः प्रायतः अन्येषु व्याकरण ग्रन्थेषु तदरूपेण उपलभ्यते।