________________
39
प्राकृतव्याकरणस्य परम्परा वैयाकरणेन।
ग्रन्थेऽस्मिन् महाराष्ट्री भाषां व्यतिरेके शौरसेनी मागधी, पैशाची, चूलिकापैशाची तथा अपभ्रंश भाषाणाम् निरूपणमपि कृतम्। __संस्कृतवत् प्राकृतस्य विभिन्न रूपावलि अस्य ग्रन्थस्य महत्वं प्रतिपादयति। रिचर्ड पिशल महोदयस्य मतमपि ग्रहणीयमस्मिन् प्रसङ्गे-“संज्ञा तथा क्रियापदानां रूपावली निमित्तं प्राकृतरूपावतार अतीव महत्वपूर्णम्। कतिचित् स्थाने सिंहराजेन, हेमचन्द्रः तथा त्रिविक्रमः आचार्येभ्यःअधिकरूपाणि प्रदेयानि। निःसन्देह अनेकानि रूपाणि नियमानुसारेण निर्मितम्, साधितम् वा, परन्तु नवीनानि रूपाणि व्याकरण नियमानुसारेणाऽपि साधितम्, अतः अस्य, विषयमिदं अतीवसरसं"। संस्कृतभाषया लिखितं प्राकृतव्याकरण पुस्तकानाम् संक्षिप्त परिचय
क्रमदीश्वरः अस्य ग्रन्थस्य रचयिता। अष्टाध्यायैः संवलितः ग्रन्थऽयम्। प्रथमे सप्ताध्यायेषु संस्कृत व्याकरणस्य विवेचनम् तथा अष्टमाध्याये प्राकृतस्य विवेचनं कृतम्। पिशल महोदयस्य मतेन, हेमचन्द्रस्य परवर्तिनः अयमाचार्यः। प्राकृतानन्दः
ग्रन्थस्य लेखकः रघुनाथः शर्मन्। ग्रन्थेऽस्मिन् प्राकृतप्रकाशस्य सूत्राणाम् प्रक्रियानुसारेण वर्णनम् लभ्यते। षडभाषासुवन्तरूपादर्शः
नागोआ अस्य ग्रन्थस्य रचयिताः। पिशलमहोदयस्यमतानुसारेण नूतनग्रन्थोऽयम् तथा प्रक्रियानुसारेण सूत्रैः संयोजितम्। प्राकृत चन्द्रिका
संस्कृतस्य महावैयाकरणः शेषश्रीकृष्णः अस्य ग्रन्थस्य रचयिता। ग्रन्थे अस्मिन् ४४१ श्लोकानि वर्तन्ते, रचनाकालं १६ इशवीय, ग्रन्थकारस्य स्वव्याख्यामप्यस्ति।