________________
38
प्राकृत व्याकरणम् शाकारिका, चाण्डालिका, शावरी, आभीरिका तथा टक्की विभाषाणाम्' तृतीय शाखायाम् नागर वाचड तथा पैशाचिक अपभ्रंश भाषाणाम् विषये सविशद विचारं परिलक्षते।
ग्रन्थकारस्य स्वव्याख्यामपि उपलब्ध अष्टस्तवकं यावत्। ग्रन्थकारेण प्राकृत पद्यानि उदाहरण रूपेण उद्धृतम्। अनेन ग्रन्थस्य महत्वं वर्धते। विषय विवेचन तथा सूत्र निर्माणादि दृष्ट्या प्राकृतानुशासनस्य प्रभावः परिलक्षते, परन्तु ग्रन्थस्य स्वयं विशेषता ग्रन्थस्य मौलिकतां स्पष्टीकरोति। प्राकृतसर्वस्व __आचार्य "मार्कण्डेय कवीन्द्रकृत" प्राकृतसर्वस्व ग्रन्थः प्राकृतव्याकरण ग्रन्थेषु अन्यतमः। मार्कण्डेयेन, उत्कलस्य राजा मुकुन्ददेवस्य राजत्व समये ग्रन्थं सम्पूर्णं कृतवानिति उल्लिखितम् । अतः अस्य स्थितिकालः मुकुन्ददेवस्य समयस्य (१६६६) निकटवर्ती इति निश्चितम्। __सम्पूर्ण ग्रन्थः विंश पादेन विभक्तः। ग्रन्थस्य प्रमुख नवपादेषु महाराष्ट्री प्राकृत भाषायाः विस्तृतं वर्णनं परिचयमपि प्राप्तम्। अन्तिम पादे शौरसेनी प्राच्या आवन्ती तथा मागधी इति चतस्त्र भाषाः, शाकारी, चाण्डाली, शावरी, आभीरिका तथा टाक्की एताः पञ्च विभाषाः, नागर, ब्राचड तथा उपनगर एताः तिस्र अपभ्रंश-भाषाः, केकय, शौरसेन, पाञ्चाल एताः पैशाचभाषाणाम् संक्षेप निरूपणमपि लभ्यते। अतः ग्रन्थे विवेचितानांभाषाणाम् संख्या १६ भवति। याः भाषाः सर्वेभ्यः प्राकृत व्याकरणेभ्याधिकम्। ___ ग्रन्थस्य अनुशीलनेन स्पष्टमिदं प्रतीयते यत्, मार्कण्डेयः प्राकृत भाषया सह संस्कृत-साहित्यमध्ययनं कृतवान्। प्राकृतशब्दानाम् शास्त्रीय विवेचनमपि अनेन कृत। प्राकृतरूपावतारः
आचार्यः सिंहराजः प्राकृतरूपावतारग्रन्थस्य रचयिता। अस्य कालं १८ इशवीय इति अनुमियते। “त्रिविक्रमवृत्ति' ग्रन्थमाधारीकृत्वा ५७५ सूत्रेण “मध्यसिद्धान्त कौमुदी' सदृशं प्रक्रियानुसारेण प्रस्तुतं कृतमनेन