________________
37
प्राकृतव्याकरणस्य परम्परा प्राकृतव्याकरणवृत्ति
जैन धर्मावलम्बी त्रिविक्रमः अस्य ग्रन्थस्य रचयिता। कतिपयैः विद्वद्भिः अस्य ग्रन्थस्य रचयिता वाल्मीकि इति स्वीक्रियते। अन्यैः कतिपयैः विद्वद्भिः, त्रिविक्रमः अस्य ग्रन्थस्य रचयिता इति स्वीक्रियते। सूत्राणामुपरि हेमचन्द्रस्य प्रभावः निपतति तथा सूत्रसंख्या १०८६.
मल्लिनाथस्य पुत्र कुमारस्वामिना प्रतापरुद्रीयस्य "रत्नापण" व्याख्यायाम् त्रिविक्रमस्य नामोल्लेखं कृतम्, अतः त्रिविक्रमस्य कालं ईशवीयस्य निकटवर्ती इति निर्धारितं भवति।
आचार्य बलदेव उपाध्यायस्य मतेन त्रिविक्रमस्य वृत्तिः पाण्डित्यपूर्णम्। उदाहरणस्य प्रचुरता परिलक्षते। अस्य वृत्तिः अष्टाध्यायी ग्रन्थस्य काशिका वृत्यासह तुलनीयम्, यतः सूत्रकारेण निर्दिष्ट सूत्राणां क्रमपरिवर्तनं न कृतम् अनेन लेखकेन। षड्भाषाचन्द्रिका
लक्ष्मीधरः अस्य ग्रन्थस्य रचयिता, ग्रन्थकारस्य मतेन त्रिविक्रमस्य वृत्तेः व्याख्यास्वरूपमऽयं ग्रन्थः, प्राकृतव्याकरणस्य प्रक्रियाग्रन्थ स्वरूपम् अयं ग्रन्थः षडभाषाचन्द्रिका। पाणिनि व्याकरण “अष्टाध्यायी" ग्रन्थस्य प्रक्रियाग्रन्थ “सिद्धान्तकौमुदी" ग्रन्थस्य सदृशम्। प्राकृतकल्पतरु
बंगप्रदेशस्य ख्यातनामा पण्डित रामतर्क वागीश भट्टाचार्यः अस्य ग्रन्थस्य रचयिता। भारतस्य पूर्वभागे लिखिमिदं ग्रन्थं प्राकृतव्याकरण ग्रन्थेषु मूर्द्धनी भवति। अस्य ग्रन्थकारस्य कालं १५ तथा १६ इशवीय स्य निकटवर्ती इति स्वीक्रियते।
पद्यबद्ध रचनाशैली “कुसुमं” रूपेण परिचितम्। तिसृभिः शाखाभिः संवलितः ग्रन्थोऽयम्। ग्रन्थेअस्मिन् कतिपयानि अनिश्चित स्तवकानि तथा प्रति स्तवके कतिपयानि कुसुमानि वर्तन्ते। ग्रन्थकारस्य मतेन ३५७ कुसुमानि वर्तन्ते अस्मिन् ग्रन्थे। परन्तु ३५२ कुसुमानि लभ्यते।
प्रथमायाम् शाखायाम् महाराष्ट्री, शौरसेनी, प्राच्या, आवन्ती, वालीकी, मागधी, अर्द्धमागधी तथा दाक्षिणात्य, द्वितीय शाखायाम्