________________
36
प्राकृत व्याकरणम् प्राकृतविषयकः संहब्धः तथान्तिमाष्टमाध्याये षट् प्राकृतभाषाणाममहाराष्ट्री, शौरसेनी, मागधी, चूलिकापैशाची, पैशाची तथा अपभ्रंश भाषाणाम् विशद विवरणस्य प्रस्तुति लभ्यते। अस्य ग्रन्थस्य लेखकः हेमचन्द्रेण प्राकृत व्याकरणस्य उपलब्ध सामग्री प्रकाशितुं प्रयत्नेन भगीरथ सदृशं। प्रथम सप्ताध्याये १११९ सूत्राणि “प्राकृत- प्रकाशस्य द्विगुणतां प्रकाशयति, तथा ग्रन्थस्य विशालतां प्रतिपादयति।
हेमचन्द्रः गुजरात प्रदेशस्य अणहिल्लपट्टणस्य राजा सिद्धराजस्य आश्रितासीत्। अतः अस्य कालं १२ इशवीय।
ग्रन्थस्य मुख्य विशेषता एतादृशं१. अपभ्रंशभाषाणाम् सर्वप्रथम निरूपणम्। २. - अपभ्रंश भाषाणामुदाहरण रूपेण तत्कालीन लोकभाषया रचित
पद्यानाम् प्रचुरमात्रेण प्रस्तुतीकरणम्। चूलिका पैशाची इति प्राकृतभाषायाः सर्वप्रथम उल्लेखं विश्लेषणं
च। ४. “प्राकृतप्रकाश" स्य प्रभावः परिलक्षितोऽपि नूतन नियमाना
मुद्भावना। प्राकृतानुशासनम्
बंग प्रदेशस्य ख्यातनामा कोशकारः तथा वैयाकरणः पुरुषोत्तमदेवः अस्य ग्रन्थस्य लेखकः। अस्य कालं १२ इशवीय इति अनुमीयते। विंशाध्याय विशिष्टमऽयं ग्रन्थः। किन्तु सम्पूर्ण रूपेणाद्यावधि न उपलब्धम्, यतः प्रथम दौ अध्यायौ तथा तृतीयाध्यायस्य अर्धभागं नष्टप्रायः।
अस्मिन् गन्थे महाराष्ट्री, शौरसेनी, मागधी, आवन्ती तथा पैशाची भाषाणाम् , शाकारी, चाण्डाली, शाबरी टाक्की आदि विभाषाणाम् विशद तथा स्पष्ट निरुपणमुपलब्धं, अनेन प्रकारेण पुरुषोत्तमदेवेन प्राकृतस्य सर्व विवरण प्रदानेन प्रयत्नंकृतम्।
विषयस्य निरूपणं प्राकृतप्रकाशस्य सदृशं । अस्य ग्रन्थस्य प्रकाशनं प्राकृत कल्पतरू ग्रन्थस्य परिशिष्टे प्राप्तम्।