________________
35
प्राकृतव्याकरणस्य परम्परा मध्यवर्ति इति आचार्य बलदेव उपाध्यायस्य अभिमतं। इयं टिका अष्टमनवमपरिच्छेदं यावत् उपलभ्यते। (ङ) चन्द्रिका
आधुनिक युगस्य विशिष्ट विद्वान् म. महोपाध्याय मथुरा प्रसाद दिक्षितः प्राकृतप्रकाशस्योपरि इमां चन्द्रिका टिकां विरचयति। यदि च अस्यां टिकायाम् “प्राकृत सञ्जीवनी", "सुवोधिनी" अनयोः टिकयोः प्रभावः निपतति, तथापि अस्याः मौलिकता अक्षुण्णा वलशालिनि च। (च) दीप्तिः
डॉ. श्रीकान्त पाण्डेय महोदयेन दीप्तिनाम्ना हिन्दीटीका कृता। अस्यां टीकायां प्राकृत शब्दानामुदाहरणानि संस्कृत शब्दात् कीदृशं सृष्टमिति आचार्येण उक्तम्। न तु केवल उदाहरणानां ससूत्र साधनं परन्तु प्राकृतशब्दरूपं धातुरूपमित्यादिनां सूची ग्रन्थस्य अन्तिम भागे परिशिष्टे प्रदत्ता। इदं तु ग्रन्थस्य नूतनतां प्रतिपादयति। (छ) अम्बिका
प्राकृतप्रकाशस्य अन्यतमा इयं नूतनाटीका अम्बिका चतसृभिर्व्याख्याभिः संवलिता। सदानन्दकृता सुबोधिनी, वसन्तराजकृता सञ्जीवनी, भामहकृता मनोरमा, कात्यायनरचिता च पद्यवद्धा प्राकृतमञ्जरीति। इयमेव टीका प्राकृतशब्दान् व्याकरण सूत्रेण सह व्युत्पादयति। अद्यतन समाजे प्राकृतव्याकरणं प्रति छात्राणं वैराग्यमनोभावं परिलक्ष्य ससूत्र साधनेन प्राकृतभाषां पुनः सरलीकर्तुं प्रयासः कृतः। ग्रन्थोऽयं छात्राणां अध्यापकानां शोधकर्तृकाणां कृते च सर्वादौ उपयोगी भविष्यतीति दृढं प्रत्येति। सिद्धहेमशब्दानुशासनम्
पाणिनेः अष्टाध्यायी" सदृशं अष्टाध्यात्मकं विशालोऽयं ग्रन्थः। स्वयं ग्रन्थकारेण “वृहती” तथा “लघुवृत्ति' इति व्याख्याद्वयं लिखितम्। हेमचन्द्रेण सिद्धहेमशब्दानुशासने - प्रथम अध्यायादारभ्य सप्तमाध्यायं यावत् संस्कृत व्याकरण विषये तथा चरमोडंशः