SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ 34 प्राकृत व्याकरणम् टिकां विलिखितवान्। “बुद्धवा चकारवृत्तिं संक्षिप्तान् भामह स्पष्टाम् इति मङ्गलाचरणांशे इयं संक्षिप्त टिकारूपेण यदिवा भामहेन प्रोक्ता तथापि संक्षिप्ताप्येयं सर्वजनमनोहारिणी दिगन्तविस्तारिणि किर्तीशालिनी। (ख) प्राकृतमञ्जरी प्राकृतप्रकाशस्य इयं खलु अन्यतमा श्लोक निवद्धा टिका प्राकृतमञ्जरी। अस्याः अनुशीलनेन एतदेव ज्ञातुं शक्यते यत् अस्याः टिकायाः लेखकः भामहकृतया मनोरमया सह अवश्यं परिचितं भवेत्। अतएव अयं भामहस्य परवर्ति इति वक्तुं शक्यते। यदि च अस्याम् व्याख्यायाम् टिकाकारः न कुत्रापि स्वस्य नाम उल्लिखति, तथापि अयं कात्यायनः इति केचित् वदन्ति। परन्तु मतमिदं नैव सर्वजन ग्राहकम्। यदि च अस्यां भमिकायां कात्यायनः शब्दः उच्चारितः अनेन, अयं कात्यायन शब्दः आचार्य वररुचि उदिश्यत कृतोऽस्ति। अतएव अयं टिकाकारः इदानिमपि अज्ञातम्। (ग) प्राकृतसञ्जिवनी प्राकृतप्रकाशस्य अन्यतमा इयं प्रसिद्ध टिका प्राकृत सञ्जिवनी पर्याप्ता विस्तृता च इयं टिका कदाचित् स्वतन्त्र ग्रन्थरूपेण विविच्यते। अस्य टिकाकारः वसन्तराः अस्ति। अस्य वसन्तराजस्य नामोल्लेखः सप्तदश शताब्ध्याम् मार्कण्डेय कवीन्द्रेण स्वकीये प्राकृत सर्वस्वे कृतः। अतएव अयं सप्तदश शताब्ध्यां पूर्ववर्ति इति वक्तुं शक्यते। आचार्य बलदेव उपाध्यायस्य मतेन अस्य वसन्तराजस्य अपरं नामः कुमारगिरिः आन्ध्रप्रदेशस्य कस्यचित् विशिष्ट मण्डलस्य राजासीत् यस्य शासनकालः चतुर्दशः शतकः। इयमेव टिका विशदा प्रैढा प्रमेय वहुला च। भामहापेक्षया कानि-चन अधिकार सूत्राणि विरच्यन्ते। केषाञ्चित् सूत्राणां पाठान्तरमपि टिकायां अस्यां परिदृश्यन्ते। (घ) सुबोधिनी वस्तुतस्तु प्राकृत सञ्जीवन्याः लघुरूपा इयं टिका भवति सुवोधिनी। अस्याः टिकाकारः सदानन्द पञ्चदश शतक सप्तदश शतकयोः
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy