________________
प्राकृतव्याकरणस्य परम्परा येषु ४८७ सूत्राणि सन्ति इति भामहस्य मतम्। महामहोपध्याय मथुरा प्रसाद दिक्षितः प्राकृतप्रकाशे ५०९ सूत्राणि सन्ति इति आमनुते। अस्य प्राकृतप्रकाशस्य नवपरिच्छेदेषु सामान्य प्राकृतं व्यवहृतमस्ति। किन्तु द्वादशपरिच्छेदे स्थितं “शेषंमहाराष्टीवत्' इति सूत्रं महाराष्ट्री प्राकृत विषये विवक्ति। अत्र प्रथमपरिच्छेदे संस्कृत स्वराणां प्राकृते परिवर्तन काले कथंभूतं सामान्य विशेष वा रूपं भवेत्। द्वितीय परिच्छेदे असंयुक्त व्यञ्जनस्य, तृतीय परिच्छेदे संयुक्त व्यञ्जनस्य, चतुर्थ परिच्छेदे कतिपयानां विशिष्ट शब्दानां ध्वनेः विषये च चर्चा कृतास्ति पञ्चम परिच्छेदे, षष्ठ परिच्छेदे अपि सुवन्त शब्दानां सम्बन्धे एवञ्च सर्वानाम शब्दानां विषये आलोच्यते। सप्तम परिच्छेदे धातुरूप विषयिणी चर्चा, अष्टम परिच्छेदे संस्कृत धातोः प्राकृते परिवर्तन प्रक्रिया कृतास्ति। नवम परिच्छेदे. निपातानाम् अव्ययनाम् विवरणं प्रदत्तं। अस्मिन्येव नवमे परिच्छे दे "शेषः संस्कृतात्' इति सूत्रमिदमस्मिनध्याये असाधितानां शब्दानां संस्कृतशब्दानामिव रूपसिद्धिर्भवेदिति घोषणा आचार्येण कृता। इदं सूत्रम्इममेव विचारं प्रस्तौति यत् महाराष्ट्रीप्राकृतस्य मूलप्रकृतिः भवति संस्कृतम्। दशम परिच्छेदे पैशाची प्राकृतस्य अनुशासनं कृतमस्ति। एवञ्चाप्यस्याः प्रकृति शौरसेनी इति स्वीकृताम्। एकादश परिच्छेदे मागधी प्राकृतस्य विवेचनं कृतम्। यस्य मूल प्रकृतिः भवति शौरसेनी। अन्तिमे द्वादश परिच्छेदे शौरसेनी प्राकृतस्य निरुपणं भवति।
स्वकीय रचनाशैल्या सरलया गिरां प्राकृतप्रकाशः सर्वजनग्राह्यः भवितुं समर्थः। अस्य लोकप्रियशैल्या विमुग्धः केरल निवासी कवि श्रीकृष्णलीला शुकः प्राकृत प्रकाशस्थितानां प्रयोगाणामाधारण "सिरिचिंधकव” नामक प्राकृत काव्य विरचितवानिति प्राकृतप्रकाशस्य माहात्म्यम् न केवल भारतवर्षे अपि तु पाश्चात्ये भूयसि चर्चा परिलक्षते। प्राकृत प्रकाशस्योपरि यद्यपि अनेकाः व्याख्याः परिदृश्यन्ते तासु निम्नोक्तः व्याख्याः नितरां मूर्धनीभूता। (क) मनोरमा
काश्मिर निवासी पण्डितः प्रसिद्धालंकारिकः आचार्य भामहः मनोरमा