SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 32 प्राकृत व्याकरणम् शक्यते। हारनोलि महोदयस्य विचारस्तु मूलजैनागमस्य भाषा अर्धमागधी भवति। अतः अयमाचार्यः इशवीय प्रथमशतक निकटवर्ती इति विचार्यते। परन्तु चण्ड - व्याकरणस्य काल निरुपणे प्रसिद्धः फ्रेञ्च विद्वान् ज्यूलो ब्लास् किमपि नूतनं मतं स्वीकुरुते। तन्मते तु चण्डव्याकरणं अतीव अर्वाचिनमस्ति। यतोहि१. चण्डः जैन विद्वानासीत्। अनेन वर्धमान महाविरः प्रणम्यते, एवञ्चापि “जिनवरः" इति “अर्हन्त" अनयोः शब्दयोः उल्लेख कृतोऽस्ति। एतदर्थमयं चण्डः स्वस्य धर्मभाषया अर्धमागध्या एव स्वकीय व्याकरणं लिखितम्, न तु भिन्नेन केनापि प्राकृतेन। "लक्षणंप्राकृतंवक्षे किञ्चिदबृद्धमतादह' इति वचनेऽस्मिन् व्यवहृतं वृद्धपदमस्य पूर्ववर्तिनः आचार्यमवश्यमेव स्मारयति। यद्यपि प्राकृतलक्षणं प्राकृत प्रकाशात् पूर्ववर्ति व्याकरणं स्यात् तर्हि प्राकृत प्रकाशे प्राकृत लक्षणस्य प्रभावः अवश्यं निपतत्, किन्तु तत्तु भवत्येव नहि। एततसर्व मनसि निधाय ज्यूलो ब्लाक् महोदयः प्राकृत प्रकाशस्य परवर्तिव्याकरणं “लक्षणं" इति निगदति। वररुचिः (प्राकृत प्रकाशः) प्राकृत व्याकरणे समुपलब्धेषु ग्रन्थेषु आचार्य वररुचेः प्राकृत प्रकाशः अन्यतममसन्दिग्धं सर्वतन्त्रं स्वतन्त्रं व्याकरणम्। अस्मिन्येव व्याकरणे सर्वाधिकाः टिकाः विराजन्ते। एतासु टिकासु प्राचिनतमा टिका रूपेण मनोरमा टिका स्वीकृता। यस्याः टिकाकारः भवति आचार्य भामहः। अयं काश्मिर निवासी सुप्रसिद्धः आलंकारिकः इशवीय पञ्चमशताब्द्यां भूमिष्ठः वभूव इति ऐतिहासिकानां मतम्। अतएव प्राकृत प्रकाशस्य रचनाकालः अवश्यमेव चतुर्थ शताब्द्याः निकटवर्त्ति इति वक्तुं शक्यते। अयं वररुचिः कः आसीत् इति विषये विदुषां मतभेदः वर्तते। प्रसिद्धः अष्टाध्यायी वार्तिककारः कात्यायनः वररुचेः अपरपर्यायः इति यदि वा केचन वदन्ति तन्न। यतो हि वार्तिक-प्राकृत प्रकाशयोः रचना शैली पृथकभूता एव। अस्मिन्येव प्राकृतप्रकाशे द्वादश परिच्छेदाः सन्ति।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy