SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणस्य परम्परा 31 प्रकाशने असमर्थमिति वक्तुं शक्यते। अतएव विभिनैः कारणैः प्राकृतं जनसमाजे लोकभाषा भवितुमसमर्था जाता। या भाषा जनमुखे नैव प्रचलति स्वस्य व्यवहारिक रूपं जहाति सा मृतभाषा रूपेण परिगण्यते। एतत् सर्व मनसि निधाय प्राकृत भाषायाः व्यवहारिक प्रणालि लोके उपस्थापयितुं प्राकृतप्रकाशस्य अनुशिलनस्य सर्वादौ करणीयम्। इदमेव व्याकरणमस्याः भाषायाः सारल्यरूपमुपदिशति। अस्य व्याकरणस्य दिग्दर्शनेन प्राकृतभाषा एकाजीवित भाषा भवति। अस्याः व्यवहारः जनसमाजे कातुं शक्यते इति काऽपि धारणा समुदेति। भरतः (नाट्यशास्त्रम्) नाटयशास्त्रस्य रचयिता आचार्य भरतस्य स्थितिकालः खिष्टपूर्वः द्वितीय शतकः इति विदुषामाशयः। अनेन संस्कृत नाटके पात्र प्रयुक्त भाषायाः चर्चा प्रसङ्गे स्वस्य नाटयशास्त्रस्य सप्तादशाध्याये प्राकृतस्य चर्चा कृता। अत्रापि मागधी, आवन्ति, प्राच्या, शौरसेनी, अर्धमागधी, वालिका, दाक्षिणात्या इति क्रमेण भाषागणनादनन्तरम् (1) शकरी, (2) आभिरी, (3) चाण्डालि, (4) शावरी, (5) द्राविड़ी, (6) उड्रजा इति विभाषाणाम् उल्लेखः कृतः। अत्र इदमेव उपदिष्टं, कीदृशः पात्र विशेषः, कीदृशी भाषां, विभाषां च व्यवहरेत्। यदि च द्वाविंशत्यध्याये प्रसङ्गेस्मिन् उदाहृतम्, तथापि आचार्यस्य इदं संक्षिप्तं अस्पष्टं च प्राकृत विवेचनम् अस्याः भाषायाः विषये वास्तविकं समीचीनं च तत्त्वम् प्रदातुं समर्थ भवति। चण्डः (प्राकृत लक्षणम्) __ केचन विद्वांसः आचार्य चण्डस्य इदं प्राकृतलक्षणं प्राकृतभाषायाः प्रथमम् उपलब्धं व्याकरणम् इति स्वीकुर्वन्ति। प्रसिद्धः पाश्चात्य विद्वान हार्मोलि महोदयः अस्य पुस्तकस्य इशवीय १८८० संवत्सरे कलकत्ता नगरे सर्वादौ प्रकाशनमकरोत्। अयमेव ग्रन्थः सूत्रात्मकः। अस्य तृतीयाध्याये नवति अथवा १०३ सूत्राणि उपलभ्यन्ते। अत्र व्याकरणे मागधी, शौरसेनी, पैशाची इत्यासामुल्लेखः भवति। किन्तु सामान्यतया चण्ड व्याकरणे प्राकृत विवरणमशोक धर्मलिप्यां व्यवहृतात् प्राकृतात् अर्वाचिनं भवति, तथापि प्राकृतप्रकाशात् प्राचीनमिति विचारः कर्तुं
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy