________________
28
प्राकृत व्याकरणम् ३. न कारस्य स्थाने “ण” कारेण समं नस्य अपि प्रयोगः प्राप्तः।
यथा नगरी > णयरी, नूनं > णूनं, निपन्नः > नुवण्णो। “यथा" "यावत्" अनयोः द्वयोः स्थाने क्रमेण “अहा", "आव" प्रयोगः उपलब्धः। केषांचित् समस्त पदानाम् उत्तर पदस्य पूर्व “म्" कारस्य आगमः भवति। अन्न + अन्नम् > अन्नमन्नं।
तृतीया एकवचने कदाचित् “सा" इति वर्णस्य प्रयोगः लभ्यते। ७. “क्त्वा” इति प्रत्ययस्य स्थाने तूण, ऊण, च्चा, त्तु उपलभ्यन्ते।
क्त प्रत्ययान्त शब्दः "ड" कारान्तः परिदृश्यते। यथा- व्यापृतम्
> वावड़। ९. “अस्" धातोः सर्वेषु कालेषु पुरुषेषु वचनेषु “आसी' रूपं भवति। १०. अन्याः विशेषताः महाराष्ट्रया समं भवन्ति। (ग) जैन शौरसेनी
दिगम्बर सम्प्रदायस्य सिद्धान्त ग्रन्थाः यया भाषया रचिताः इमाः सर्वाः शौरसेन्याः प्रकायन्ते। यथा प्रवचनसार-कार्तिकेयानुप्रेक्षा - गोम्मट्टसार - समयसार कषायप्राभृतादीनां ग्रन्थानां भाषा इयमेव भवति। अस्याः शौरसेन्याः एकं रूपं भवति। यस्मात् कारणात् अस्यां शौरसेन्यां जैनधर्मस्य सर्वे ग्रन्थाः विरचिताः। इयमप्यं अंशानेन महाराष्ट्रया अर्धमागध्या सह सम्मिलिता। अनेन कारणेनेयं प्रसिद्ध साहित्यिक शौरसेन्याः भाषायाः भिन्ना जैन शौरसेनी कथ्यते। विदूषां मतानुसारेण अस्यां भाषायां जैन महाराष्ट्रयाः अर्धमागध्याः प्रभावः समधिकः। येन कारणेन जैन महाराष्ट्रयाः इयं समधिक प्राचीना भवति।
अस्याः कतिपयानि विशेष लक्षणान्यधः वर्ण्यन्ते। १. 'त' 'थ' कारयोः स्थाने क्रमेण “द", "ध' कारयोः प्रयोगः दृश्यते।
तत् यथा- विगतः > विगदो, जातः > जादो, यथा >
जधा, कथम् > कध। २. "त" कार स्थाने "त" कदाचित् “य" भवति। यथा- तथा
> तधा, गतम् > गयं।