________________
27
प्रमुख प्राकृतभाषा समूहाः ११. केषाञ्चित् शब्दानां तृतीया एकवचनस्य स्थाने “सा' प्रत्ययः
समायाति। तत् यथा- मनसा > मणसा, वचसा > वयसा। १२. क्त्वा प्रत्ययस्य स्थाने, ता, तु, तूण, ऊण, इय, इत्ता, इत्ताणं,
एत्ताणं प्रत्ययाः प्रयुज्याः। १३. तुमुनिति अस्य प्रत्ययस्य अर्थे "इत्तए", "तुं", तथा उं इत्यस्य
प्रयोगः भवति। १४. धातुनाम् भविष्यति काले "घ्यस्थाने “स्स" भवति, तथा स्स
स्थाने हिति वर्णस्य प्रयोगः लभ्यते, तत् यथा गच्छिस्सयि > गच्छिहियि।
अतीतकाले सर्वत्र “इसु" प्रतययस्य प्रयोगः लभ्यते। (ख) जैन महाराष्ट्री
मूल जैनागमात् परं जीनैः यत् प्राकृतं विशाल साहित्यं विलिखितं अस्य प्रधान भागः जैन महाराष्ट्रया भाषया लिख्यते। “वृहत कल्पभाष्य व्यवहार सूत्रभाष्यं, विशेषाक भाष्यं “निशीथ", "धर्म संग्रहणी", "समरा इति कहा", "कुवलयमाला”, “वसुदेव", "गौमतरीय" तुल्येषु ग्रन्थेषु अस्याः महाराष्ट्रयाः प्रयोगः लभ्यते। महाराष्ट्रयाः मूल प्रवृत्तिः अर्धमागध्याः लभ्यते अपि। इदमनमीयते यत् इयं महाराष्ट्री भाषा साहित्य महाराष्ट्रयाः समधिकं प्राचीनाः भवति। सम्भाव्यते यत् अस्मिन् समये जैनधर्मः दक्षिण भारते शनैः शनैः प्रविशति स्म। तथा च अस्मिन् दक्षिण भारते जनाः विशेष भावेन महाराष्ट्रीयाः लोकाः इमां आदौ न स्वीकुर्वन्ति स्म। अनेन कारणेन अस्यां अर्धमागध्याः महाराष्ट्रयाः च लक्षणं लभ्यते। तथापि महाराष्ट्रयाः कस्मिश्चित् भेदे स्थिते सति यतः जैनैः इयं भाषा व्यवहृता। अतः इमां जैन महाराष्ट्रीमिति कथ्यते। अस्याः मुख्यानि विशेष तत्त्वानि अधः वर्ण्यन्ते। १. असंयुक्त क प्रायशः "ग" कार रूप गृह्णाति। तत् यथा- आकारः
> आगारो, कन्दुकं > कन्दुअं लुप्त व्यञ्जनानां स्थानेषु “य" वर्णः लभ्यते। यथा कथानकं > कहायणं (क > य), भगवता > भगवया (त > य), गदा > गया (द > य), कचिग्रह > कयग्गहो (च > य)