________________
26
२.
प्राकृत व्याकरणम् "त" तथा "य" कारयोः रूपेण परिदृश्यते। तत् यथा- लोकः > लोगो, आकरः > आगरो, अधिकम् > अहितं (क् > त), अवकारः > अवयारे। स्वर मध्यवर्ती तथा असंयुक्त “ग्” प्रायशः विद्यते परं कदाचित् "त" अथवा 'य' रूपेण परिवर्त्तते। तत् यथा आगमनम् > आगमणं, अतिगम् > अतितं (ग > त), सागरः > सायरे। स्वरमध्यवर्ती तथा असंयुक्त "च्" तथा "ज" कारयोः स्थाने कदाचित् 'त' कदाचित् 'य' भवति। तद् यथा- नाराचं > णारातं, कदाचित् > कयाति, पूजा > पूता, आत्मज > अत्तय।। स्वरमध्यवर्ती असंयुक्तं “त्" प्रायशः तत् स्वरूपं गृह्णाति परं कदाचित् "य" भवत्येपि। तत् यथा- सततम् > सततं, करतलम् > करयलं। स्वरमध्यवर्ती “द्" प्रायशः 'द' कार तथा 'त' कार रूपेण . परिदृश्यते। तत् तथा- जनपदः > जणवदे, यदा > जता। स्वरमध्यवत्तीः “प", "व" कारस्य रूपं गृह्णाति, तद् यथाअतिपातः > अतिवाते, उपनीतः > उवणीते। स्वर मध्यवर्ती “य" प्रायः स्वयं विद्यते। कदाचित् “त' कारस्य रूपं गृह्णाति। तत् यथा- प्रिय > पिये, पर्यायः > परिताते, गायति > गातति। स्वर मध्यवर्ती 'व', 'व्', 'त' तथा 'य' कारे परिदृश्यते, तद् यथा- गौरवम् > गारवं, परिवारः > परिताले, परिवर्तनम् > परियहणं। "न्”, “न्” तथा “ण” वर्णस्य स्थाने परिदृश्यते। तत् यथानदी > नई, अनिलः > अनिले, वाचना > वायणा, नमति > णमति। आकारान्तात् शब्दात् परस्य विसर्गस्य प्रायशः "ए" कदाचित् "ओ" भवति। तत् यथा- जिन्नः > जिणो, वुधः > वुहो। सर्वनाम शब्देषु द्वौ वर्णौ भवतः कः > के, को।
७.