________________
प्रमुख प्राकृतभाषा समूहाः
(ग) जैन शौरसेनी आसां सर्वासां विशेष संकेतरूपा इदं लक्षणमभिधत्ते। (क) अर्धमागधी ___ जैन विद्वांसः अस्य शब्दस्य शाब्दिकार्थ गृहीत्वा भिन्न मतं प्रतिपादयन्ति। अन्ये केचन अर्धमागध्याः निर्वचनमवलम्व्य इमां मागध्याः अर्ध विशेषतां प्रतिपादयन्ति। मागध्यासह समानताफलेन इमां प्रतिवेशिनी भाषामिति मन्यन्ते। परन्तु मूल जैनागमस्य भाषा मागध्याः वहुभेदपरा भवति इत्यनेन कारणेनोपरि लिखितं निर्वचनं तथा अर्थमनुपपन्नमिति प्रतीयते। अस्मात् हेतोः जैनग्रन्थेषु कुत्रचित् अपि “मगः ध विषये भासा निवद्धमर्धमागहम्" इति सूत्रमुल्लिखितम्। यस्थार्थः तात्पर्यात् एवं भवति मगध देशस्य अर्धभागेषु जनैः इयं कथ्यते। अतः इमाम् अर्धमागधी इत्युच्यते। इयमर्धमागधी कस्य प्रदेशस्य भाषा आसीत्, अयं सम्बन्धः अधुनाऽपि न सुनिश्चितः। अष्टाविंशति तीर्थकरस्य वर्धमान वीरस्य तथा वुद्धदेवस्य उपदेशाः अनया भाषया उल्लिखिताः। अतः इयमर्धमागधी पूर्वोत्तर प्रदेशस्य भाषा भवेत्, परं पूर्वोत्तर प्रदेशस्य कथिताः भाषाः भोजपुर्यावधी भाषासु अस्याः मुख्यानि लक्षणानि न प्राप्यन्ते। अनेन कारणेनोक्त मान्यतायां प्रश्नः प्रवर्त्तते। लक्षणालोचनया इदमपि प्रतिपन्नं भवति, यदेयं महाराष्ट्री प्राकृत भाषा आधुनिक मराठी प्राकृतया भाषया सह अधिक साम्यतां प्रतिपादयति, इदम् अपि परिदृश्यते। इदं तत्वमवलम्व्य हार्नलि तुल्यैः विद्वद्भिः जैन ग्रन्थेषु लिखितामर्धमागधीमार्ष प्राकृतमिति मानयन्तः, अपि घोषयन्ति यत् गच्छत्सु कालेषु अस्याः अर्धमागध्याः साहित्यिक अर्धमागध्याः महाराष्ट्रादीनां भाषाणामुद्भवः भवति, एवं भवतु। अर्धमागधी श्वेताम्बरस्य सम्प्रदायस्य सर्वागमग्रन्थानां भाषा भवति। याभ्यः इमामर्धमागधी प्राक् प्रसिद्धा भाषेति कथ्यते। कतिपयानां विदूषां मतेन 'बुद्धदेवस्य मुखनिसृताः भाषा इयमपि भवत्येव। अनन्तरं पालीभाषया या अनुद्यते। अर्धमागध्याः कतिपयानि विशिष्ट लक्षणानि एवं भूतानि१. स्वर मध्यवर्ती तथा असंयुक्त “क्” प्रायशः 'ग्' भवति। कदाचित्