________________
24
प्राकृत व्याकरणम् षड़भेदान् लाक्षणिक भावेन परिगण्यते। इदमपि न हि सुनिश्चितं एतासु युक्तिसु उक्तिसु च किदृशि सत्यता वर्तन्ते।
कतिपयानां विशिष्टानां उदाहरणानां लक्षणं एवंभूतम्१. वर्णस्य तृतीय चतुर्थ वर्णस्थानेषु क्रमेण प्रथम द्वितीय वर्णी
भवतः। तद् यथा- नगरम् > नकरं, मेघः > मेखो २. 'र' कार 'ल' कारयोः व्यत्ययः क्रमं दृश्यते तद् यथा- रुद्रः
> लुद्दो, आदरः > अलले। ३. “ण्" कारस्य स्थाने "न्" कारस्य व्यवहारः सुप्रसिद्धः। तरुणी
> तलुनी
महाराष्ट्रभाषया तुल्यं स्वरव्यञ्जनानां लोपः न भवति (वुल्न) ५. महाप्राणस्पर्शक्षमः "ह" कारः अस्यां महाराष्ट्री भाषायाम् न
प्रवर्तते। ६. ष्ट, स्न, र्य, ज्ञ, ज्ज कन्याशब्दानाम् "न्य" इति ध्वनिना सह
क्रमेण सट, सन, रिय, ञ, च्च, ञ भवन्ति एव, तद् यथाकष्टम् > कसटं, स्नेहः > सनेहो, भार्या > भारिया, सर्वज्ञः
> सव्वञ्जोः। कार्यम् > कच्चं, कन्या > कर्जा। ७. हृदय शब्दस्य स्थाने “हितअक" शब्दस्य प्रयोगः भवति। ८. क्त्वाच् इति प्रत्ययस्य स्थाने “तून" इति आदेशः भवति। ९. "इव' इति तुल्यार्थकस्य अव्ययस्य “पिव" उच्चारणं भवति। जैन प्राकृत - येषु ग्रन्थेषु जैन धर्मेण सह समधिकः सम्बन्धः विद्यते, इमे सर्वे ग्रन्थाः विद्वद्भिः जैन प्राकृतम् इति अभिधीयते। उपर्युक्त शिलालेखेषु प्राकृत साहित्येषु कतिचित् भेदभूतः वादः स्पष्टः भवति इति कारणात् प्राचीन प्राकृत वैयाकरणाः अधिकाधिक स्थानेषु अस्य स्पष्टवर्णनं न वर्णयन्ति। तथापि आसां प्राकृतभाषाणां स्वतन्त्रास्तित्वं विद्यते। अनेन हेतुना इमानि सर्वाणि तत्त्वानि न परित्यज्यानि। तथाभूताः प्राकृतभाषाः अधः वर्ण्यन्ते।
(क) अर्धमागधी (ख) जैनमहाराष्ट्री