________________
प्रमुख प्राकृतभाषा समूहाः
(ङ) प्रायशः आत्मनेपदीनाम् धातुनाम् व्यवहारः स्वल्पः। १०. संस्कृतभाषायाः क्त्वाच्, तूण्-ऊण, तुमुन् प्रत्ययः सिद्धानां रूपाणां
उ, दु इतिरूपेण संदृश्यते, स्था धातोः स्थाने “चिष्ठ” इति भवति।
अन्यानि सर्वाणि वचनानि शौरसेनी रित्या प्रचलति। पैशाची - अस्यापरं नाम पिशाचिका इति कथ्यते। पुनश्चापि पैशाचः भूतानां भाषितं। केचन प्रवदन्त्यप्येयं भाषा भूत भाषितं। अनेन प्रकारेण इमां प्राकृत पैशाच्याचिन संस्कृत साहित्येषु प्रचलिताः प्रसिद्धाः पिशाच शब्दाः अयमर्थः अस्यां प्ररूढः। अनेन पिशाचशब्देन सार्द्ध भूतइत्यस्य शब्दस्य सम्मेलनं विद्वद्भिः क्रियते स्म। यः भूतशब्दः अनेन सार्द्ध प्रचलितः तदपि सात्यन्तिकः भ्रमात्मकः। काश्मीरं निकषा निवसन्तः अधिवासिनः पिशाघाः इति महाकाव्यस्य महाभारतस्य व्यासमहाकविना उल्लिख्यते। इमं महाभारतोल्लेखं अवलम्व्य जार्ज ग्रियरसनेन काश्मीरस्य आफगान् स्थानस्य तयोः मध्यवर्ती स्थानेष पैशाची प्राकृतस्य प्ररूढ़ प्रयोगः दृश्यत्येति उक्तम्। अस्य महाभागस्य मतानुसारेण हिन्दुकुशस्य पैशाच्याः साकं दरदः, काफिरः, शिणा, काश्मिरः इति भाषाणाम् सम्बन्धः परिदृश्यते।
अधुनाप्यस्याः भाषायाः किमपि साहित्यं नोपलभ्यते। तथाप्यनुमियते यदयं भाषा लोकभाषा आसीत्। समये तस्मिन् सावलील सरस साहित्यानां रचनां सम्भवेदिति सम्भावना। महाकविना गुणाढयेन अनया भाषया विश्वविश्रुतः महान्कथा वृहत्कथासरितसागरः विरचितः। अनुमियते यत् अयं महान्ग्रन्थः द्वादशशतकं यावत् काश्मीरप्रान्ते विद्यते। यतः अस्मिन् शतके महाकविः क्षेमेन्द्रः सोमदेवश्च वृहत्कथामञ्जरी कथासरित सागरस्य प्रतीकरूपेण संस्कृतभाषया अलिखताम्। अनन्तरम् हम्मीरमदमर्दन नाटके अप्यस्याः प्रयोगः उपलभ्यते। षड़भाषा चन्द्रिका रचयितुः लक्ष्मीधरस्य मतानुसारेण अस्याः प्रयोगः राक्षस पिशाच तुल्यैः पात्रैः प्रयुज्यते। हेमचन्द्रेण अस्याः चुलिका पैशाची इति अन्यः भेदः समुल्लिखितः। इयं पैशाची कस्मात् प्रान्तात् समायाता इति निश्चित रूपेण न परिष्क्रीयते। रामतर्क वागीशोऽपि इमाः तिस्रः मार्कण्डेयेन कविचन्द्र साकं अस्याः