________________
22
प्राकृत व्याकरणम् (ग) ष्क्, ख्, ष्ट, ष्ठ्, ष्त्, स्थ, स्प, स्फ, - क्रमेण अनेन
रूपेण क्ख्, छ, त्थ्, प्फ, परिवर्तनम् भवति। तद्यथापुष्करम् > पोक्खरं, विष्टरम् > विट्ठर, पुष्पम् > पुप्फ,
हस्तः > हत्थो। (घ) “क्ष", “घ”, शब्दयोः आदौ क्रमेण ख, ज् तथा मध्यभागे
"क्ख" > "ज्ज्" रूपेण परिवर्तन्ते, तद् यथा- 'क्षेत्रम् >
खेत्तं, नक्षत्रम् > णक्खत्तं, द्युतिः > जुई, विद्या > विज्जा। (ङ) स्न, झ, ह्र वर्णाः क्रमेण णह, मह, न्ह रूपेण परिवर्तन्ते
तद्यथा- स्नानम् > पहाणं, ब्राह्मणः > वम्हणो, चिह्नम् >
चिन्हें। ८. शब्दरूपेण एवंभूता प्रवृत्तिः परिदृश्यते। तद् यथा(क) व्यञ्जनान्त रूपं परिसमाप्तं भवति। (ख) द्विवचनस्य लोपः भवति। (ग) चतुर्थ्याः लोपः अपि तादृशः। (घ) प्रायशः सर्वाणिरूपाणि अकारान्त शब्देन समं उच्चार्यते। (ङ) स्त्रीलिङ्गस्य आकारान्त, ईकारान्त, उकारान्त रूपाणि दीर्घत्वेन
पर्यवसन्ति। (च) केषाञ्चित् शब्दानाम् अपि लिङ्गपरिवर्त्तनं दृश्यते। (छ) युष्मदस्मदोः रूपविषये अनेकानेकानाम् विभक्तीनाम्
अनेकानिरूपाणि प्रदर्श्यन्ते। तद् यथा- मयि > मई, मए,
ममम्मि, ममस्सिं। ९. (क) धातुरूपेष्वपि एवंभूताः प्रवृत्तयः दृश्यन्ते, लकाराणाम् संख्या
पञ्चभागेषु अवस्थिताः केवलम्। (ख) द्विवचनस्य रूपं न भवति कुत्रापि। (ग) अनेकानाम् संस्कृत धातुनाम् शुद्ध रूपाणि ध्वनिकारेण नैव
स्वीकृतानि अपि तु एषां स्थानेषु नुतनाः धातवः प्रयुज्यन्ते। (घ) सर्वेषां धातुनाम् अतीतकालरूपेषु केवलं वर्तमानकालः
उपलक्षते।