SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रमुख प्राकृतभाषा समूहाः २. ४. ६. Ww ७. 21 “न”, “य”, “श”, ष कारान् विना आदौ प्रयुक्त असंयुक्ताः अपि कश्चित् व्यञ्जन ध्वनिः न परिवर्त्तिष्यन्ति । (क) सर्वाषु स्थितिषु “न” कारस्य णत्वरूपं भवत्येव, तद् यथानमः > इति णमः, वचनं इति वचणं, मनोरथः > मणोरहो । (ख) "य" कारस्य परिवर्तनं "ज" कारेण संभवति, तद् यथा यमुना > जमुणा एव, कार्यम् > कज्जम् एव । (ग) “श” कार “ष" कारयोः परिवर्तनम् "स" कारेण भवति यथा, शेषः भवति सेसः एव । पदादौ स्थितयोः "क" कार "ष" कारयोः कदाचित् क्रमेण "ख" कारण "फ" कारेण परिवर्त्तनं भवति । तद् यथा - कुब्जः > खुज्जो रूपेणेति पनसः फणसो इति । पदमध्यवर्त्तीनाम् असंयुक्तानां क, ग, च, ज, त, द, प, य, व काराणां प्रायशः लोपः सम्भवति । पदमध्यवर्त्तीनाम् असंयुक्तानां “ख”, “घ”, “थ”, 'ध', 'फ', भानां प्रायशः "ह" कारेण परिवर्तनम् भवति । वाक्यमध्यवर्त्तिनो "ट" "ठ" कारयोः क्रमेण "ड" कारण "ढ" कारेण परिवर्त्तनम् भवति । तद् यथा - वटः > वड़ो, पठनम् > पढणम्। स्वरमध्यगतस्य असंयुक्तानां पकारस्य प्रायशः " व" कारं रूपं भवति तद् यथा दीपः > दीवो । - (क) संयुक्तेषु व्यञ्जनवर्णेष्वपि “कगड़तदपवस” एतेषां वर्णनां ध्वनिरूपेण साम्यता प्रवर्त्तते । तद् यथा- युक्तम् > जुतं, क्षुब्धम् > छुब्धं, खड्गः > खंड़गो, उत्पातः > उत्पाओ, मुद्मः > मुंग्गो, सुप्तः > सुतो, षष्ठः > छटठोः । (ख) ल् व् र् संयुक्त ध्वनेः अंगत्वं लब्ध्वापि अन्य वर्णानाम् ध्वनिरूपेण सर्वदैव स्वीक्रियते तद् यथा -> विल्वम् > वेल्लं। वल्कलम् > वक्कलं, तक्रम् > तक्कं, धर्म > धम्मो ।
SR No.023441
Book TitlePrakrit Vyakaranam
Original Sutra AuthorN/A
AuthorSalila Nayak
PublisherPratibha Prakashan
Publication Year1997
Total Pages288
LanguagePrakrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy