________________
20
प्राकृत व्याकरणम् लिखितयाऽभिलेख भाषया साकं समानता परिदृश्यते। अनेन प्रकारेण अन्येषामभिलेखानां सम्बन्धः अवधेयः। अत्र नास्ति काचित् विचिकित्सा यत् उपर्युक्त लिखितानां तात्कालीकानां प्राकृत भाषाणां मूलभूतेयं प्राकृतभाषा। यस्मात् परवर्तीभिः साहित्यिकैः रचिताः संजाताः। तथापि आसां प्रचलितानां तत्कालीन साहित्य भाषाणामिदृशी समानता न दृश्यते, कथितभाषास्वपि एवंभूतं सादृश्यं स्पष्टतया न प्रतीयते, येन परवर्ती प्राकृतभाषाभिः सह आसां समुचितः सम्बन्धः स्यात्। प्राकृत ललितसाहित्य
सर्वाः ललित साहित्य रचनाः अधोलिखितेष्वप्युपलभ्यते तद् यथा- महाराष्ट्री शौरसेनी मागधी पैशाच्यश्चः। महाराष्ट्री - इयं महाराष्टयासु चतसृषु भाषासु प्राचीनतमेति मान्यते। प्राकृत व्याकरणे आदावास्याः सम्यक् विवेचनं कृतं विद्वद्भिः। इमां आदिभूतां विचार्य अनन्तरम् शौरसेन्यादिनां विचारः प्रकटितः। प्राकृत व्याकरणानुसारेण अतः सर्वश्रेष्ठतां अधिकरोति। कवि शेखरेण श्रीमता दण्डिना स्वीक्रियते इयं महाराष्ट्री सर्वोत्तमा एव। महाराष्ट्र प्रान्ते भाषा वहुल प्रचरणात् प्रसरणात् पुनः व्यवहारात् च अस्याः बहुमान्यता वर्तमाना विद्यते।
कतिपया: महाराष्ट्रीयाः इमं महाराष्ट्र शब्दं महाभारतं इति प्रवदन्ति, परन्तु एवंभूतां सम्भावनां वयं न गृह्निमः अस्यामालोचनायाम्। यतः इयं महाराष्टयाधिकाधीकाः मराठयेति प्राकृत भाषायां स्थूलरूपेण प्रवर्तन्ते। यस्यां अवस्थाभ्यां महाभारतस्य बहुप्रान्तीयानांभाषाणां वर्तमानता न विद्यते। महापंहता विदुषा पिशलेनेयं महाराष्ट्री भाषा महाराष्ट्रेति प्रान्तेन सहपूर्णतया संवन्धितेति स्वीक्रियते। स्वस्थाः सावलीलतायाः सुकुमारतायाः कारणात् गद्यकाव्येषु अधिकाधिकां मान्यतां स्थास्यति। इदानीन्तनीया गाथा सप्तसती रचनायां इयं भाषा सरलतया गान धर्मणि तिष्ठति। “गौड़वहो तथा दहमुहवहो" सेतुवन्ध तुल्यानि काव्यानि प्राकृतमहाकाव्य रूपेणावस्थापितानि मान्यानि भवन्ति च। वहुषुसंस्कृतप्रसिद्धकाव्येष्वास्याः पद्यभागः परिदृश्यते। संक्षेपेण यथा सम्भवानि उदाहरणानि प्रदेयान्यियधः।