________________
19
प्रमुख प्राकृतभाषा समूहाः
अशोकस्य तथा कतिपयानां राज्ञां शिलालेखासु कुडयालेखास्वपि तात्कालीन प्राकृत भाषाणां बहुविधानि स्वरूपाणि यत् परिदृश्यन्ते आसां चर्चाकदापिकेऽपि न कृतवन्तः एवं भूतायां स्थितौ कतिपयाः प्राकृतभाषाः काभिः नैतिक रीतिभिः प्रामाण्यन्ते बहु निश्चय विचारैः इदमपि न निगदितुं शक्यते। तथापि प्रौढ़साहित्यानां अन्येषामपि साहित्यिकानां प्रमाणं सुविदितम्। एवंभूतानां प्राकृतानां परिगणनं तस्य सविशेष लक्षणस्य वार्ता अधोरूपेण शक्यते उपस्थापयतुिम्। तद् यथा
१. शिलालेख प्राकृतम् २. ललितसाहित्य प्राकृतम्
३. जैनसाहित्य प्राकृतम् प्राकृत शिलालेखः
एवंभूताः शिलालेखाः वर्तन्ते यासु समधिकं प्रमाणं रवीष्टपूर्वात् चतुर्थशतकादारभ्य तृतीय शतकं यावत् उपलभ्यन्ते, एषु शिलालेखेषु अशोकस्य तथा खारवेलस्य लेखाः सुप्रसिद्धाः भवन्ति। इदं प्रमाणं सर्वैः सुविदितं यत् प्रियदर्शिना अशोकेन स्वकीयान् विंशति शिलालेखानात्मनः धार्मिक सिद्धान्तस्य प्रचारणाय देशस्य विभिन्नप्रान्तेष निर्मियते स्म।
एषां विशेषत्वमिदं यत् इमे शिलालेखाः यत्र सुप्रतिष्ठिताः तत्र तेषामधिवासीनां लोकमुखभाषा लिपि च सुलिखिताः विद्यन्ते। पश्चिमोत्तर प्रान्ते मानसेहरायां तथा सहवाजगडयां लेखाः खरोष्ठीषु तथा ब्राह्मी लिपिषु वर्तन्ते। भाषाणां विभेदः प्रायशः सर्वासु भाषासु लक्षन्ते, इत्यन्तरं प्राच्यानां पाश्चात्यानां लेखानां भाषासु बहुभिन्नता प्रवर्तते। विदुषामयं विचारः यत् अशोकस्य सर्वेषु धर्मग्रन्थेषु लेखेषु वा तत्कालीन प्राकृतकथनं प्राकृततां प्रकटयतीति। कालस्याः शैललेखस्य भाषा प्राध्यापकः लुडर्स महोदयः प्रोवाच यत् इत्यप्यर्धमागधी रूपम् भवति। खारवेलस्य हस्तिगुम्फायाः अभिलेखादुदयगिरेः गह्वराणां अभिलेखः प्राचीनतमः मुख्यश्च। अस्य समयः खीष्टपूर्वः द्वितीय शताब्दि भवति। मूलाभिलेखः अतीव जीर्णावस्थायां विद्यते। तथाप्यस्य भाषायाः अशोकेन पूर्व