________________
18
प्राकृत व्याकरणम् भाषाः भवन्ति। प्राकृत सर्वस्वस्य रचयिता मार्कण्डेय कवीन्द्रः रामतर्क वागीशस्याधारमवलम्व्य प्राकृत भाषा विभागमेवं क्रमेण चकार। १. महाराष्ट्री, शौरसेनी, प्राच्या, आवन्ती तथा मागधी (भाषाः) २. शाकारी, चाण्डाली शावरी, आभीरिका मागधी (विभाषाः) ३. नागर, वाचड़ तथा उपनगर (अपभ्रंशाः) ४. कैकेय, शौरसेन पाञ्चालाः च पैशाचभाषाः
अस्मिन् विषये एवं सम्यकवधारणीयं यत् उपर्युक्तभाषासु स्वात्मरूपं प्राकृतं न केवलम्, काश्चित् अपभ्रंश भाषाः संविद्यन्तेऽपि। यासां प्राकृतभाषा एव जननीस्वरूपा। एवंभूताः काश्चित् भाषाः अनुभूयन्ते याः वैदेशिकैरुचारतुमशक्याः ता आभीर्याः अस्तित्वं निरुपयन्त्येव। अपराः काल्पनिकाः भाषाः संदृश्यन्तेऽपि तद् यथा इमाः षट् पैशाची भाषाः। इमाः विहाय सर्वासां लौकिकयानां प्राकृत भाषाणां सम्पूर्ण परिगणनं नावधार्यते।
यतः यस्मिन् समये उपरि वर्णितानां प्राकृत वैयाकरणानां रचनाः संप्रचलिताः जायन्ते स्म तस्मात् प्राक् प्राकृतभाषाः लोकभाषाख्यायिकात् विच्युतासन्। तासां प्राकृतभाषाणां समुचित स्थानं तात्कालिकापभ्रंश भाषाः भारतीयार्यभाषाः प्राचीनमध्यकालीनं स्वरूपमुरीचकार।
एवंभूतायां स्थितौ वास्तवानां विविधानां तत्त्वानां सामग्रिक सम्मिलनं नैवसंभवमित्यस्मात् कारणात् प्राकृतव्याकरणे प्रस्तुता सर्व समभावान् विषयान् साहित्यरूपेणाङ्गी कृत्य पुनश्च कस्मिञ्चित् अंशविशेषे कल्पनाप्रसुतम् अवश्यमनुमन्तव्यम्।
पुनरपि विस्मितता समायाति दृष्ट्वेदं कतिपयैः वैयाकरणैः सर्वेषां साहित्यानां प्राकृतानामपि पुष्कलं वर्णनं न संस्थापितम्।
प्राकृतप्रकाश ग्रन्थेऽपि प्रकाश्यते यत् अर्धमागधी तुल्यायां विशेष प्राकृत भाषायाः सम्यक् वर्णनं न समुपलभ्यते। जैनधर्मात् परं प्रचलितं साहित्य अर्धमागध्यातिरिक्तं शौरसेनी महाराष्ट्रयोरपि विलिखितम्। या शौरसेनी महाराष्ट्रवाः किंचिदंशेन भिन्ना भवति। तथापि कतिपयैः वैयाकरणैः एवमपि हेमचन्द्र जैनाचार्येणाऽस्मिन् विषये ध्यानं न प्रयच्छते। .