________________
प्रमुख प्राकृतभाषा समूहाः चुलिका पैशाची, अपभ्रंशाः अपि हेमचन्द्रेण मान्यन्ते। अपरं तु अपभ्रंशात् पुनश्चातिस्रः प्राकृतभाषाः संजाताः! एतास्वपि प्राकृतिक भाषासु हेमचन्द्रेण आर्षप्राकृतमप्यर्द्धमागधी इति संगृह्यते। यस्यां जैनधर्मस्य समस्त प्राचीनतमाः आगम वचनानि निवध्यन्ते। यस्य हेमचन्द्रस्य विचार निष्कर्ष "प्राकृतलक्षणस्य" लेखकेन चण्डेन इमामर्द्धमागधी प्राकृतभाषामिति उवाच। चुलिका पैशाची नाम्नावश्यं नविनता विद्यते, तथापि पैशाचिका याः कश्चित् भेदः अवश्यमनुभव्यते एव। पञ्च शतकात् श्वीष्टाब्दात् अनन्तरमपभ्रंशः इति प्राकृत भाषाभ्यः संजातः समुत्पन्नः वा अनिवार्य सत्यम्।
अनेन प्रकारेण परस्थाः सर्वाः भाषा प्राकृतभाषान्तताः इति कर्तुमासीत् समुद्यते हेमचन्द्रः। __ आर्षं विना अन्य षट् “षड़भाषाः” इति उच्यते। वाल्मीकिना विरचिते प्राकृतसूत्रे, पुनश्चापि लक्ष्मीधरकृतायां “षड़भाषाचन्द्रिकायामासां सर्वासां भाषाणां सुनिरूपणं क्रियते। पुरुषोत्तमदेवेन स्वकीयप्राकृतानुशासनेऽपि काश्चिदपराः भाषाः अपि प्राकृत परिधौ एकीकर्तुं प्रयत्नः क्रियते स्म।
__ आसां विभागकरणेन पुनरपि कांचित् नवीनां चिन्तां चकार। तस्यमतानुसारेण सर्वाः प्राकृतभाषाः पञ्चसंख्यकाः। तद्यथा- महाराष्ट्री, शौरसेनी, प्राच्या, आवन्ती, मागध्यश्च। आभ्यः परं कैकेयी, शौरसेनी नामनी द्वे पैशाचिकयौ भाषायाम्, शाकारी, चाण्डाली, शावरी, टक्की नाम्न्यः चतस्रः विभाषाश्चापि, अपितु नागर वाचड़ो अपभ्रंशौ अनेन मान्यौ भूयताम्।
बंगप्रसिद्ध वैयाकरणेन रामतर्कवागीशेन स्वकीय पुस्तके प्राकृतकल्पतरौ, पुरुषोत्तमदेव कृतं वर्गीकरणमवलम्व्य भाषा विभाषा पैशाचिकी भाषासंख्याः संकेतयत्यप्यस्य विचारणायामपि महाराष्ट्री, शौरसेनी, प्राच्यावन्ती वाहिल्की मागध्यर्द्धमागधीदाक्षिणात्याः इमाः अष्टभाषाः, शाकारिकी चाण्डालिका शावर्य। भीरिका टक्की इमाः पञ्च विभाषाः नागर वाचड़ अपभ्रंशौ कैकेय शौरसेनी पाञ्चाल गौड़मागध वाचड़ाः इमाः षट् पैशाच भाषाः अनेन मार्गेण इमाः द्वाविंशाः